SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ सप्तदश उत्साहः इतश्च मगधाभिधे जनपदे सुदा(? धा)मास्पदे ऽस्ति राजगृहपत्तनं . वसुमतीशिरोमण्डनम् । इहास्त जयधर्मराट् क्रमपराक्रमस्वर्गिराट ___ सती सुभगतावती प्रियतमाऽस्य पद्मावती ॥१ तदीयउदरान्तरे हरिणराजसुस्वप्नतो . ऽवतारमकरोत् सुरो विजयसेनराजर्षिसूः । प्रशस्यसमयेऽसौ समजनिष्ट दिष्टाम्बुधिः .. - स सिंहनृपशेखरो विजयते भवानेव हि ....२ य एष कथितः पुराऽत्र वसुदेवदेवः सको। .ऽरिमर्दनसुताऽभवन्निभलवेन(?) - लीलावती । स साधु धनदेवकोऽजनि सुरालयात् प्रच्युतो ।। ऽसको कमलकेसरस्तव सुनन्दनः - सम्प्रति ॥३ प्रबोघसमयोऽधुना नृप तवेत्यसौ प्रेषितः .. प्रगे पठितवान् सुरस्तव च धर्मरागोऽभवत् । वयं च तदिहागतास्तत इदं मया मूलतो - विरागमतिकारणं निजमुदीरितं विस्तरात् ॥४ इति श्रुतवतां क्षणान्नपतिसिंहदेवी तनू रुहां हृदुदये जनुःस्मृतितमोऽपदः (१) प्रोदगात् । ततोऽखिलविलोकनाज्जगुरमी भवाब्धेस्त्वया । वयं मुनिप तारितास्तदधुना विधेयं दिश ॥५ तदा च सहसाऽऽगतो गुरुमुवाच शूरामरः प्रबोधयितुमेष मां नृपसुतः प्रतिश्राव्यताम् । सुतोऽस्य भविताऽस्म्यहं यदथ राजसूरब्रवीद् व्रतेच्छुरधुनाऽप्यहं तत इद कुतंःसम्भवि ॥६ Lila.-48 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy