SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ ६६-७८] षोडश उत्साहः अत्रान्तरेऽवधिचरात् तं विज्ञाय नृपाङ्गजम् । श्रीमत्समरसेनस्य . मुनीन्द्रस्योपजानुकम् ॥६६ पञ्च वर्णविमानानां धोरणीभिः समन्ततः । द्यां भुवं चान्तरा रम्यां सृजन्निव नवां दिवम् ॥६७ कलशैश्चविमानानां तामरसमयीमिव । दिवाऽपि च पताकाभिज्योत्स्नाश्रेणिमयीमिव ॥६८ नान्दीतूर्यनिनादैश्च शब्दाद्वैतमयीमिव । गायद्भिर्गायनस्तोमैर्गान्धर्वैकमयीमिव ॥६९ नृत्य भिनर्तिकावृन्दैविद्यन्मालामयीमिव । मङ्गलपाठिनां पाठः सन्मङ्गलमयीमिव ॥७० कण्ठीरवद्वीपद्वीपिशार्दूलसरभादिभिः । यानहंसहयाद्यैश्चर्भा(?)विस्मयमयीमिव ॥७१ अगरैरमरीभिश्ध गणनामतिगामुकैः । रूपान्तरैरिव निजैः परितः परिवारितः ॥७२ मनोवनेभश्रवणदृक्करङ्ककार्मणम् । पदे पदे स्थिरं पश्यन् पुरः सङ्गीतकौतुकम् ॥७३ भास्वन्तमप्यभास्वन्तं तन्वंस्तनुविभाभरैः । श्रीशूरदेवस्तत्राऽगात् सौधर्मेन्द्र इवाऽपरः ॥७४॥ नवमिः कुलकम् तावद्देवपरीवारः स प्राक्षिणयत् प्रभुम् । गुरुभक्तिभराक्रान्त इव नीचैः ननाम च ॥७५ भगवन्तमनुज्ञाप्य सिंहासने निविश्य च ।। एकैकबाहोः स्रीपुंसपात्रैात्रिंशता क्षणात् ॥७६ षोडश षोडश नाट्यान्याधाय पुरतः प्रभोः । उपदश्यॊपसंहृत्य नत्वा स्तुत्वा पुनः प्रभुम् ॥७७ विनयात् प्रश्नयित्वा च श्रुत्वा निर्वचनानि च । यथागतं जगामाशु स श्रीनिर्जरशेखरः ॥७८॥ त्रिभिर्विशेषकम् ६८.२. तामर्यस. ७३.४. पुरंः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy