SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ ३७४ Jain Education International लीलावतीसारे अनुमानान्तरादेव तत्प्रवृत्तौ विदांबर । इतरेतराश्रयणानवस्थादि प्रसज्यते ॥५३ प्रियः प्राह प्रिये नात्र पूर्वदोषो स्थितिर्यतः । पूर्वानुमानं नान्त्याश्रिन् किन्तु पूर्वतराश्रयम् ॥५४ अनवस्थापि नैवात्रावतरीतुं प्रगल्भते । द्वित्र(?) ज्ञानोदयेऽवश्यं जिज्ञासाविनिवृत्तितः ॥५५ किञ्च - साधर्म्यत वृत्त्याsध्यक्षमप्यनुमानकम् । प्रवर्तकं ततस्तन्न भवेद् दूष्यानुमानवत् ॥५६ स्वप्न प्रत्ययदृष्टान्तात् प्रत्यक्षं न प्रमेति चेत् । तदाऽखिलव्यवहारोच्छेददोषस्तवापतेत् ॥५७ अपि चाप्तगिराऽप्येषा दुर्गतिर्बुध्यते बुधैः । साऽऽख्यदाप्तः क ऊचेऽसौ वीतरागस्त्रिलोकवित् ॥५८ न मृषाभाषणेऽमुष्य कारणं किमपीक्ष्यते । रागादिदूषितो ह्यजः पुरुषो भाषते मृषा ॥ ५९ प्रेयस्यूचे तर्हि नाथ श्रणुमः किं वदन्त्यभी । ततस्तौ दम्पती प्राप्तौ सूरिराजस्य सन्निधौ ॥६० अपश्यतां प्रविशन्तौ प्रथमं तौ महामुनीन् । कायोत्सर्गवीरवज्रपर्यङ्काद्यासनस्थितान् ॥६१ नानालब्धितटिन्यब्धींस्तपःक्रशितविग्रहान् 1 राजसामन्तमन्त्रीभ्यश्रेष्ठिसार्थपनन्दनान् मुनीश्वरम् । प्रेक्षांबभूवतुरथ व (?) दन्तस्तौ सौम्यं सुधाकरमिव प्रभाकरमिवोज्ज्वलम् ॥६३ पयोधिमिव गम्भीरं कल्पदुचिन्तामण्यादेर्माहात्म्यद्धिविजित्वरम् धीरं काञ्चनशैलवत् । ततो भक्त्या नमस्कृत्य तं सूरिं सपरिच्छदम् । आसांबभूवतुरिमौ प्राञ्जली सद्गुरोः पुरः ॥ ६५ For Private & Personal Use Only [ ५३-६५ ॥६२॥ युग्मम् ॥ ६४ ॥ युग्मम् www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy