________________
३९-५२]
षोडश उत्साहः
३७३
ततस्तं सर्वप्रच्छन्नताहविग्रहकारिणम् । परस्त्रीलिप्सुमसमवैरं मन्च्यादयोऽमुचत् ॥३९ सामन्ता मन्त्रिणः सर्वे श्रीसुषेणस्य तेऽमिलन् ।। ततः प्रधानत्यक्तः स प्रणनाश शृगालवत् ॥४० श्रीसुषेणो गर्जनके प्रवर्त्य पितृशासनम् । महाबलांस्तत्र देशेऽस्थापयद् दण्डनायकान् ॥४१ वर्धापकं प्राहिणोच्च श्रीदुर्योधनभूभुजः । राजधान्यां स्वयं स्थित्वा सौस्थ्यं सर्वत्र चातनोत् ॥४२ ततः स्वराज्याभिमुखं ववले स बलेश्वरः ।। श्रीसुषेणो निजभुवि वसन्तपुरमाप च ॥४३ तत्र श्रीनन्दनोद्याने स्कन्धावारं न्यवेशयत् । क्रीडन् श्रीनरसुन्दर्या तस्थौ च कतिचिदिनान् ॥४४ इतः श्रीसिंहराजसुषेणमवबुध्य तम् । प्रबोधयोग्यं
समरसेनसूरिरिहागमत् ॥४५ तत्रैव नन्दनवने तस्थौ च सपरिच्छदः । प्रभुं वंदारवः पौराः शुश्रुवुर्धर्मदेशनाम् ॥४६ तथा पौरादिभिर्वन्द्यमानान् निध्याय तान् गुरून् । श्रीसुषेणकुमारं तं पप्रच्छ नरसुन्दरी ॥४७ आर्यपुत्र पुरः केऽमी किमाचारं चरन्ति वा । कुमारोऽवगिमे श्वेताम्बरा धर्म च कुर्वते ॥४८ प्रियाऽशास्रक्षुण्णगतिः कुमारं पुनरब्रवीत् । आर्यपुत्र धर्म इति कः शब्दार्थ उदीर्यते ॥४९ शास्राभ्यासी कुमारोऽपि प्रत्युवाच नृसुन्दरीम् ।। प्रिये दुर्गतिपात्यनिधारणाद्धर्म उच्यते ॥५० प्रियाऽऽह दुर्गतिः केयं प्रियोऽवक् नरकादिका ।। कथं नाथातीन्द्रियं हि नरकाद्यवसीयते ॥५१ अनुमानादिति प्रोक्ते कुमारेण प्रियाऽवदत् । प्रत्यक्षाविषये नाथानुमानं न प्रवर्तते ॥५२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org