________________
३७२
लीलावतीसारे
[२६-३८
दूतोऽब्रूत भुवीदानीं यत्प्रताप इरम्मदः ।। वैरिनारीक्षणेराभिर्माद्यन् सत्यान्वयोऽभवत् ॥२६ सोऽप्रतिशत्रुभूमीन्द्रो गर्जन् गर्जनकाधिपः ।। आज्ञापयति ते सम्यक् सावधानं निशामय ॥२७ यां नरसुन्दरीकन्यामुपयेमे त्वदङ्गजः । आसीन् मे सा वृता तत् तां प्रेषय द्रुतमेव भोः ॥२८ यद्वा गिरिं वा दरिं वा जलं वा स्थलमेव वा । शरणं प्रतिपद्यस्व नान्यथा जीवितं हि ते ॥२९ स्मित्वा दूतमथाब्रूत श्रीदुर्योधनभूपतिः । रे प्रभुस्ते स मे पत्तिः कुत एवंतरोऽस्य तत्(?) ॥३० पुण्यक्षयाद् वा तस्येति मतिरद्य व्यजम्भत । कन्दरासु स्थितं सिंहं रेकारयति कः सुधीः ॥३१ ततः प्रकुपितो दूतो भूताविष्ट इवावदत् ।। सदा त्वमेव मे स्वामितीर्थपादाम्बुजार्चकः ॥३२ तन्न किञ्चिदिदं राजन् भवदुक्तं ततो द्रुतम् ।। नृसुन्दरीमिमां देहि शरण्यं वा समाश्रय ॥३३ श्रीसुषेणकुमारोऽथ व्याजहेऽमु सुदुर्मुखम् । पदोर्गृहीत्वा क्षिपत पुरीनिर्धमनेन भोः ॥३४ ततः क्षितिपतिः प्राह वत्सैतन्न खलचितम् । दूते दण्डो न हि श्लाध्यः किन्तु तत्रैव कुप्रभौ ॥३५ ततस्तातमनुज्ञाप्य
चतुरङ्गचमूवृतः ।। तं प्रति श्रीसुषेणः स्राक् प्रतस्थे स्थेममन्दरः ॥३६ दूतं चाख्यद्रुतं गच्छ स्वप्रभोः प्रतिपादयः । इदानीं पुरुषो भूयाः पातालेऽपि न मोक्ष्यसे ॥३७ निविलम्बैः प्रयाणैश्च कुमारः प्राप सीमनि ।
स्वदूतेन तमूचे च प्राप्तोऽहं क्षत्रियो भवः ॥३८ ३५.२. एतं न. ३६.४. स्थेन.'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org