SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ ३७१ १३-२५] षोडश उत्साहः अहर्निशमसौ राजचित्तसौधे वसन्नपि । स्ववधूकारणान्मन्येऽध्यास्त सौधान्तरं पुनः ॥१३ अन्येधुर्जयपुरेशजयपुत्रीं नृसुन्दरी[ म् ] । . स्वयंवरामुपयेमे कुमारेन्दुर्निशामिव ॥१४ श्वेतयित्वाऽभितः कीर्त्या शङ्खाभ्रकवलक्षया । चित्रयित्वा प्रतापेन कुरुविन्दसनाभिना ॥१५ आज्ञालाक्षावतारेण प्रोज्ज्वाल्य भवनोदरम् । न्यायदौवारिकेणोच्चै रक्ष्यमाणोऽत्र सर्वतः ॥१६ रत्नरोचिविफलितप्रदीपद्यतिमण्डले । प्रधानेऽभ्यन्तरास्थाने निधाने सर्वसम्पदाम् ॥१७ पुण्यलक्ष्मीसखीराज्यकमलाकमलाकरे । स्वर्णरत्नोत्करोदारे श्रीसारङ्गाधिपासने ॥१८ । अध्यासामासुषस्तस्य श्रीदुर्योधनभूपतेः । श्रीसुलोचनया देव्याऽलङ्कृतार्धासनश्रिया ॥१९ . कुमारे श्रीसुषेणे चान्यासन्नासनमण्डने ।। यथोचितिनिविष्टैश्च वर्यसामन्तमन्त्रिषु ॥२० प्रक्रान्तायां च साम्राज्यकिंवदन्त्यां समन्ततः । अन्तरन्तः परीहासोदन्ते च प्रविसर्पति ॥२१ । रत्नकर्बुरितस्वर्णदण्डालङ्कृतपाणिकः । प्रियङ्करोऽन्यदा द्वाःस्थः पादौ नत्वा व्यजिज्ञपत् ॥२२॥ अष्टभिः कुलकम् देव गर्जनकाधीशाप्रतिशत्रमहीपतेः । सिंहद्वारेऽस्ति दूतोऽयं प्रभो यत् कृत्यमादिश ॥२३ द्रुतं प्रवेशयेत्युक्ते राजा दूतः सभामुपैत् । । नत्वाऽऽसीनो विज्ञपयेत्यादिष्टो भूभुजाऽभ्यधात् ॥२४ विजनं कार्यतां देव राजोचे विजनं ह्यदः । यस्ते रहस्यं किमपि तन्निशङ्कमुदीरय ॥२५ . १६:१. अज्ञा'. १९.४. श्रियः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy