________________
षोडश उत्साहः
अथात्र भरतक्षेत्रे कुरुमण्डलमण्डनम् । त्रैलोकेऽप्यंप्रतिरूपाऽप्रतिरूपा पुरी बभौ ॥१ राजा दुर्योधनस्तत्र विरेजे धृतराष्टसूः । सकर्णश्च परं धर्मात्मजपक्षप्रियकरः ॥२ युधिष्ठिरो द्विषां भीमः कीर्तिपूरैः सदाऽर्जुनः । सहदेवो नकुलश्च स श्रीदुर्योधनः परम् ॥३ पद्मोत्पलमृगाक्षीणि नोपमानानि यद्दृशोः । मन्ये विलासवन्ध्यत्वात् साऽस्य देवी सुलोचना ॥४ सुकेशी सुस्मिता स्वास्या या सुहस्ता सुवाक् [ सुपात् ] । स्वीर्या स्वंङ्गी च किं तदाहूतिमात्रं सुलोचना ॥५ तौ चान्योन्यं वपुष्पात्रे सुखपीयूषपायिणौ । अस्तोदयौ न हि विदाञ्चक्राते अमराविव ॥६ स वैरिसिंहजीवो चोर्देव्याः कुक्षाववातरत् । सुस्वप्नदोहदश्चैष समये समजायत ॥७ प्रत्यहं नवनवोऽस्य दशाहं जननोत्सवः ।। एकादशेऽह्नि सुषेण इति नामोत्सवोऽभवत् ॥८ सौभाग्यसुन्दरवपुत्ततः परमयं स्वयम् । दिवानिशमहो जज्ञे सर्वेषां नयनोत्सवः ॥९ आजन्म सकलोऽप्येष कल्प इत्येष भूभुजा । कलाचार्याय सकलकलार्थ ध्रुवमामार्दीत ॥१० उदूढनिःशेषकलं निष्कलङ्ककुलाङ्गनाः । तं पाणौ कारयाञ्चक्रे राट् स्वकीर्तिकृते ध्रुवम् ॥११ तत्र श्रीयौवराज्यश्रीः स्वयमेव समक्रमीत् । तां राट् संक्रमयन् स्नेहात् पौनरुक्त्यं विवेद न ॥१२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org