________________
३६७
पञ्चदश उत्साहः स च मुग्धः सहानेन पोतेन प्रस्थितोऽम्बुधौ ।। अन्तःसमुद्रं ताम्बूले विषेणामार्यनेन सः ॥८९ रोदित्येष जसरविः स वणिग् व्यन्तरोऽजनि । ज्ञात्वाऽवधेः स स्ववृत्तमेतं चिक्षेप वारिधौ ॥९० तीर्वाऽर्णवमयं दैवान्मिलितो धातुवादिनोः । [ ताभ्यां ] हन्तुमयं निन्ये कुमारीष पलायत ॥९१ निधये तरुपादं च खनन्नैष निवारितः ।। अधिष्ठातृव्यन्तरेण कोपाइरे निचि क्षिपे] ॥९२ यक्षिणी साधयत्येष पापः प्रार्थयते च ताम् । तया ग्रहिलितः प्राप्तो गृहे पित्रा पटूकृतः ॥९३ स्वयं स्वं पितरं हत्वा विषेणैष यशोरविः । मुक्तकण्ठं शठो रोदित्यवधारय धीनिधे ॥९४ पुनः कर्पासमादाय ययौ गर्जनकं प्रति । दवेन दग्धोऽसौ पापः प्रापन्नरकदुर्गतिम् ॥९५ वसुमित्रवणिक्पुत्री वसुनन्दोऽभवत् ततः । कुर्वन्नसौ धातुवादं पित्राऽवारि न तिष्ठति ॥९६ भागं दत्वा पृथक्चक्रे निर्धनोऽथ निधिं खनन् । योगिनाऽसौ हतः किञ्चित् पश्चात्तापाद् व्ययं गतः ॥९७ राज्ञः पद्मरथस्याङ्गभूः कनकरथोऽभवत् । असौ पित्रा समं मन्त्रं भोः कुमारान्यदाऽकृत ॥९८ देव सामन्तमन्व्याद्याः पौरा जानपदास्तथा । एकैकशः स्वं गृह्यन्ते यस्य कोशः स हि प्रभुः ॥९९ चेट्या भिन्न रहस्यं तत् सामन्ताद्यैः सपद्यपि । राजा दारुगृहे क्षिप्तोऽयं च कनकरथोऽनशत् ॥१०० प्राप्तश्च पुरि कौशाम्ब्यां श्रीसुधर्मास्यपकजात् । स्वं चरित्रं निशम्यासौ जातिं स्मृत्वा निरक्रमीत् ॥१०१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org