SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ ३६८ [१०२-११४ लीलावतीसारे कौशाम्ब्यां प्राव्रजन्नेते दश ते च दिवं [ गताः ] । श्रीनेमिपार्श्वऽमी पृच्छन्त्यागामिभवसाधनम् ॥१०२ प्रभुरूचे शरदेवात् प्रबोधो वो भविष्यति ।। प्रदीपादिव दीपानां प्रपद्यध्वं मुदं ततः ॥१०३ अयं च कनकरथश्चयुत्वाऽभून्नगरे पुरे । बलवाहनमलयसुन्दयो रेष नन्दनः ॥१०४ स च त्वमेव कुमार नात्र कश्चन संशयः । .. शूरदेवोऽहं मङ्खरूपेणात्र समागमम् ॥१०५ पटोऽयं तव बोधाय मयाऽरच्यत चित्रकृत् । . तत् कुमारवरेदानीं बुध्यस्व कुरु संयमम् ॥१०६ एतेऽनन्तभवाश्चात्र प्रोक्ताः सम्भवमात्रतः । वस्तुतस्तु जसरविमुख्या भवचतुष्टयी ॥१०७ इत्येतत् तद्वचः श्रुत्वाऽस्येहापोहं वितन्वतः । मूर्छाऽमूर्च्छत् कुमारस्य लोकर्मङ्खोऽजिघांस्यत ॥१०८ जातिस्मरणमित्रे च मिलिते राजनन्दनः । तान् निषिध्यावदन्मङ्गं स्वं रूपं दर्शय प्रभो ॥१०९ स च देवो दिव्यरूपं दर्शयित्वा तिरोऽभवत् । तां वाती पितरौ श्रुत्वोचतुर्मा वत्स निष्कभीः ॥११० पुत्रोऽवदत् तात मातरिदं वामपि युज्यते । निषेध[यन्त यन्मामप्येतन्मोहविजम्भितम् ॥१११ द्वितीयेऽह्नि श्रीसमरसेनसूरिः सहस्ररुक् । प्रातः सहस्राम्रवणे परापदुदयश्रियम् ॥११२ ततः सद्योऽपि सबलवाहनो बलवाहनः । श्रीमान् कुलमृगाकश्च प्रभुं नन्तुं प्रजग्मतुः ॥११३ भगवन्तं . नमस्कृत्य यथोचिति निषेदतुः ।। धर्म श्रुत्वा नृपो जज्ञे दीक्षेच्छुः श्रीकुमारवत् ॥११४ १०९.४. निःक्रमी. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy