________________
[७६-८८
लीलावतीसारे संप्राप्तयौवनः कामातुरो मन्त्रिपितृप्रियाः । सामन्तलोककान्ताश्च पापोऽभुङ्क्त बलादसौ ॥७६ पित्रा निर्वासितो देशान्निःसहायोऽथ निर्धनः । कामवज्रानलोत्तप्तस्तिरश्चीरपि सेवते ॥७७ नष्टां रण्डामृद्धिमती धरत्येष स्मरातुरः । जातैरपत्यैः क्लिश्येत क्रमतो निष्ठिते धने ॥७८ वार्द्धके मुण्डितशिरा वराको जीर्णमञ्चके ।। सुप्तः पूत्कुरुते भार्यादयः शृण्वन्ति नो पुनः ॥७९ नृदुःखवर्णनायोक्ता भवा एते निरन्तराः । सप्ताष्टनृभवेभ्यस्तु ज्ञेयमन्तर्भवान्तरम् ॥८० ततोऽयं व्यन्तरो जज्ञे स्रीपुंसादिग्रहस्पृहः । नानानर्थकरत्वाच्च मान्त्रिकेण न्यगृह्यत ॥८१ किल्बिषिकाभियोग्येष कुमाराजनि पाप्मतः ।। सोऽयं जातो व्यन्तरादिवाहनं हा निरूपय ॥८२ गन्धर्वादिश्च गन्धर्वानीके तु न रजत्ययम् । परद्धिदर्शनादेष देवभावेऽपि खिद्यते ॥८३ प्राप्तेऽपीन्द्राहमिन्द्रत्वे च्यवनादेष दुःखितः । एते देवभवा बोध्या नरतिर्यगभवान्तराः ॥८४ एतश्च भृगुकच्छेऽसौ जसादित्याङ्गजोऽभवत् । वणिगजसरविः सैष कदर्यो लोभसागरः ॥८५ गृहे शटितधान्यादि जरच्चीरं च यच्छति । पोतेन रत्नद्वीपेऽसौ ययौ पित्राद्यसम्मतेः ॥८६ पश्य तत्रैष रत्नानि प्रभूतश उपार्जयत् ।। चक्रे च वणिज मित्रं रत्नद्वीपनिवासिनम् ॥८७ पाप्मनाऽनेन सोऽभाणि भगुकच्छे मया सह । आगच्छ रत्नान्यादाय महालाभो भविष्यति ॥८८ :
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org