________________
६३-७५ ]
पञ्चदश उत्साहः
कुभोजनादैष
कुष्ठगलन्नाशौष्ठकर्णकः ।
मक्षिकापिण्डको निर्भत्स्यते भिक्षार्थमागतः ॥ ६३.
Jain Education International
सैष मृत्वा पुनर्जातो नरो दारिद्र्यमन्दिरम् । पराभवमहापात्रं जीवन्नपि न जीवति ॥ ६४ क्षैरेयीं वीक्ष्य भुञ्जानान् याचते स्मैष मातरम् । रुदती साऽपि दुःखार्ता बाष्पैरेवोत्तरं ददौ ॥६५ तत एष क्षुधा मृत्वा कथञ्चित् कर्मलाघवात् । जातवानभ्यतनयो व्यवाहेऽन्यसुतामसौ ॥६६
तद्व्यये हृतसर्वस्व इवासौ पश्य रोदिति । क्व गताऽसि प्रतिवद कान्ते कान्तविलोचने ॥६७ नैष भुङ्कते न पिबति ततो वातेन पूरितः । मृत्यवस्थामिव प्राप्तः परित्यक्तश्च वैद्यकैः ॥ ६८ ततोऽस्य पार्श्वे जननी पिता भ्राता च रोदिति । अयं तूत्पत्य पतति तप्तोर्व्यामिव मत्स्यकः ॥ ६९ कथञ्चिदेष प्रगुणीभूतः पित्रादयोऽहृषन् । एषोऽन्यदा गतो द्यूतेऽसंख्यं धनमहारयत् ॥७० ततश्वाक्रुश्यते मात्रा पिता किञ्चिद् ददाति नौं । गृहे प्रवेशं नैवास्य भ्रातरोऽपि ददत्यथ ॥ ७१ द्यूतकारैश्च गर्तायां निक्षिप्यादाय मूर्धनि । एतस्य धूलीपिटकं पिता मोचयते न हि ॥७२ महाजनेन मेलन्या मोचितोऽसौ न यावता । एष जज्ञे पश्य चौरः खात्रं खनति पातकी ॥ ७३ आरक्षकैरेप दृष्टः खरमारोपितस्ततः । सर्वत्र भ्रमितः पुर्यामुदबध्य पितृमन्दिरे ॥७४ पतितः पाशतः सैष शूलायामधिरोपितः । कथञ्चिच्छुभमृत्योश्च जज्ञे राज्ञोऽयमङ्गजः ॥७५
६७.१. भृत.
For Private & Personal Use Only
www.jainelibrary.org