SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ 1५०-१३ लीलावतीसारे अथायं श्वाऽभवद्देव क्षुधाों व्रणचन्द्रकी । संप्रयुक्तो हहा शुन्या वराको हन्यतेऽधमैः ॥५० जातश्छागो यायजूकैर्यागेऽहन्यत पाप्मभिः । मांसाशिभिः पश्य जध्ने हहा मृगभवेऽप्यसौ ॥५१ स एष वनकोलोऽभूदश्वथट्टेन वेष्टितः ।। भित्त्वाऽश्वथट्ट प्रणश्यन् हतः शल्येन केनचित् ॥५२ कलविकादिवालोऽयं जातः श्येनद्विकादिभिः । । जलचारी च कैवतैर्वराकोऽहन्यतासकौ ॥५३ अथोत्पेदे वराकोऽयं मनुष्येषु कथञ्चन । रण्डाप्रोषितपत्यादेगर्भऽगालि कदौषधैः ॥५४ रण्डादिगर्भे पुनरप्यायातो न मृतस्तथा । ही कुमार वराकोऽयमुज्झाञ्चक्रे श्मशानके ॥५५ स्त्रीगर्भे द्वादशसमाः स्थित्वा मृत्वा स्ववर्मणि । .. जातः स्थितो द्वादशाब्दी त्रिरष्टाब्येष जातवान् ॥५६ नारीगर्भे स्थितश्चैष तिर्यक् स्थित्वा न निर्गतः । कुमारवर जज्ञेऽसौ मातुः स्वस्य च मृत्यवे ॥५७ अयं गर्भे स्थित एव विकृत्य पृतनां घनाम् । युध्दा मृत्वा च हा गर्भनरकान्नरकं गतः ॥५८ कुमार जात एवायं रेवतीदोषतोऽमृत । पुनरुत्पन्न एवायं विनष्टो दन्तपीडया ॥५९ अयं च जातो विण्मूत्रापवित्रो रोदनोऽसकृत् । मक्षिकाभिश्च शूकावान् मातुः क्लेशाय केवलम् ॥६० दरिद्रगेहे जातोऽयं शुष्कानो गर्भगोऽपि हि । . जातमात्रे च जननी हा कुमार व्यपद्यत ॥६१ पित्राऽयं चाजादिदुग्धैरवऱ्यात पिताऽस्तमैत् । । एष कर्परहस्तस्तु भिक्षते प्रतिमन्दिरम् ॥६२ ५७.४. मातु. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy