SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ ३१-४९ पञ्चदश उत्साहः छेदभेदादि तत्रापि सोढूवाऽयं सागरत्रयम् । ततः पक्षिषु हिंस्रेषु जज्ञे पश्य नृपात्मज ॥३६ अथ पृथव्यां तृतीयस्यां सप्तसागरजीवितः ।। नारकोऽभूत् तत्र घोरघोरं दुःखं स सोढवान् ॥३७ ततः पश्यैष सिंहोऽभूद्यमस्येव सहोदरः । संहृत्य जीवान्नानाऽसौ तुरीये नरकेऽगमत् ॥३८ दशाब्धींस्तत्र च स्थित्वाऽनुभूयासुखमुत्कटम् । कुमाराथैष सोऽभूत् पश्य हन्ति तनूमतः ॥३९ ततः पञ्चमनरके सप्तदशाब्धिजीवितः ।। तत्र सोढ्वा महादुःखं जातो मत्स्यो नरोत्तम ॥४० पञ्चेन्द्रियवधादेश्च षष्ठपृथ्व्यामयं ययौ । द्वाविंशति सागराणि सहते पश्य वेदनाः ॥४१ महामत्स्यस्ततो जातः पश्यायं मत्स्यलक्षभुक् । ततोऽभूत् सप्तमपृथ्व्यां त्रयस्त्रिंश्यब्धिजीवितः ॥४२ तत्र नारकहिंसादेर्मत्सीगर्भे समागतः । अन्तर्मुहूर्त स्थित्वाऽत्र सप्तम्यां पुनरप्यगात् ॥४३ अप्रतिष्ठाननरके षट्षष्टिमिति तोयधीन् । अन्तर्मुहूर्तान्तरितान् वराकः पश्य तस्थिवान् ॥४४ ततो भ्राम्यश्च तिर्यक्षु सिंहेभाश्वगवादिषु । क्षुत्तष्णादिमहादुःखं ही वराकः सहत्ययम् ॥४५ शराङ्कुशकशारादिघातैर्गुरुभरैस्तथा । असावसातं सिंहादिभवे सन्ततमन्वभूत् ॥४६ श्रीकुमारैष महिषो जातमात्रः क्षुधाऽमृत ।। पुनश्च महिषो जातश्चामुण्डाया बलिः कृतः ॥४७ सैषोऽभवत् खरो भारं वाह्यते पश्य हन्यते ।। खरी वीक्ष्य भरं क्षिप्त्वा भुक्कुर्वन् धावतेऽधमः ॥४८ ततो गर्ताशूकरोऽभूद् विष्ठाद्यशुचिभक्षकः । अनार्यों जननीं भुक्त्वा मृतस्तद्गर्भमागमत् ॥४९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy