SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ Jain Education International पञ्चदश उत्साहः विलसद्धर्मनन्दने । भीमसह देवधनञ्जये ॥ १ इतश्च भारतेऽत्रैव सर्व x कर्मी गूर्जुत्रेतिदेशोऽस्ति सुधास्वादुफलाकरः । राजधानी विवेकस्य त्रिदिवस्येव खण्डलम् ॥२॥ युग्मम् तत्र यो नानावाहिनीरम्यो महाभूभृत्कुलाश्रितः । देशान्तरैरजेयश्च देशराज इवाऽशुभत् ॥३ राजा रराजोच्चैरुदीर्ण बलवाहनः । नरवाहन ऐश्वर्यान्नाम्ना श्रीबलवाहनः ॥ ४ बभौ यदीयदोः स्तम्भेऽवष्टम्भे राज्यसद्मनः । जयश्रीः पञ्चालिकेव नाराचैर्हढिता दृढम् ॥५ शीलचन्दनसौरभ्यसौरभ्यितधराम्बरा I प्रेमपात्रमभूत् तस्य देवी मलयसुन्दरी ॥६ सुकृताम्भोधिसंभूष्णुमुखपीयूषपायिनोः 1 घस्राः सहस्रशोऽतीयुस्तयोर्देवतयोरिव ॥७ अन्येद्युः कनकरथदेवः सौधर्मकल्पतः । कुक्षौ लसुन्दर्या नन्दनत्वमविन्दत ॥८ राकामृगाङ्गवत् कान्त्या समयेऽजायतांङ्गजः । कुलमृगाङ्क इत्यस्य नाम चक्रे महोत्सवैः ॥१९ क्रमात् कलाभिः सर्वाभिर्यः श्लिष्टः समदर्शनः । लीलयेव स्मरजयी विजिग्येऽनीदृशं हरम् ॥१० कलापात्रीर्भूपपुत्रीरष्टाष्टाशारमा इव । महीयसाऽथ महसा पिता तेनादवाहयत् ॥ ११ तासां समासां सुभगंकरण्या युवराट्श्रया । तमुद्वाह्य कृतकृत्यंमन्यो मन्येऽभवन्नृपः ॥ १२ For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy