SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ १२-२१] पञ्चदश उत्साहः अत्युन्नते विशाले च सुधानिर्मलनिर्मलैः । ... अभिन्नेऽपि नृपाभिम्ने सौधेऽदीव्यत् स तत्सखः ॥१३ ज्ञात्वा कुलमृगाङ्कस्य चारित्रावरणात्ययम् । बोधये सुगुरुः सैषोऽन्यदा तं देवमादिशत् ॥१४ मङ्खरूपं विधायागान्नगरं सोऽथ निर्जरः । जगच्चित्रकरं चित्रपटमादर्शयज्जने ॥१५ तथा हि - अकृते रन्धने श्वश्र्वा स्नुषैषा पश्य पिट्टयते । ननान्द्रा खिस्यते चासौ भ्रातृजाया यदा तदा ॥१६ एषा स्नुषा कलहकृत् भिन्ते स्वस्यांबरं स्वयम् ।। श्वश्ररेषाऽधुना वध्वा पिठ्यते हा निरङ्कुशम् ॥१७ तथाक्षारं राद्धमिदं किमद्य दयिते राध्नोषि किं न स्वयं धिक् त्वां क्रोधमुखीमलीकमुखरस्त्वत्तोऽपि कः कोपनः । आः पापे प्रतिजल्पसि प्रतिपदं पापस्त्वदीयः पिता __ दम्पत्योरिति नित्यदन्तकलहं भो भो जनाः पश्यत ॥१८ तथा - श्वश्रूः क्रूरतया कटाक्षयति मां दुष्टा ननान्दाऽपि मे भर्तुर्भग्न्यतिवल्लभाऽस्ति न चिरान्मे गर्भरूपं हले । आस्ते क्रोधमुखी च देवरवधूदग्धाऽस्म्यहं कर्मभिः __ प्रायो भोज्यमनिष्टमित्ययमहो ब्रूते वधूटीजनः ॥१९ इत्यादि हास्यकृच्चित्रं दर्शयन् प्राकृते जने । भूरिभूरि लभत्येष मङ्खो गृह्णाति नो पुनः ॥२० निर्लोभनतया तेन रञ्जितं निखिलं पुरम् । प्रियमित्रैः कुमारस्य तत्तच्चित्रमकथ्यत ॥२१ १५.१. 'यागोन्न. १८.२. 'स्वतो.. Lila.-46 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy