________________
लीलावतीसारे अपुष्पफलवत् प्राप्ते मयि प्रमुदितो नृपः । पुरमायन् पुरनरैर्गुरूदन्तेन वर्धितः ॥५२८ ततो विज्ञपयाञ्चक्रे मया वसुमतीपतिः । देव देवतरूनेतान् गुरून् वन्दामहे पुरः ॥५२९ अथ पृथ्वीश्वरोऽहं च तथैव सपरिच्छदौ । प्राणेमिव प्रभुं गत्वा सभायां च निषेदिव ॥५३० ततः कुमार संसारारण्यनिस्तीणिदीपिकाम् । देशनां सूत्रयामास । गुरुर्मोहगिरिस्वरुः ॥५३१ तथा मे प्राग्भवोदन्तवसन्तेन प्रभुर्व्यधात् । जातिस्मृतिलतां श्रद्धोत्पुष्पां दीक्षाफलोन्मुखीम् ॥५३२ ततः संबोध्य पितरौ प्रियां च प्रियदर्शनाम् । प्रियया प्रियमित्रैश्च सहादीक्षे नृपाङ्गज ॥५३३ इति श्रुत्वा प्रभुं नत्वा श्रीमान् कुसुमशेखरः । गृहे गत्वाऽऽह पितरौ श्रुतं भगवतो वचः ॥५३४ चर्तुगतिकसंसाराद्दुःखागारान्निरन्तरम् । निर्विण्णोऽहं तात मातरनुजानीत मां ततः ॥५३५. येनास्मि गुरुसार्थशप्रोक्तदीक्षाध्वनाऽधुना । प्रस्थाय निर्वृतिपदं यामि नित्यसुखास्पदम् ॥५३६ पिताऽऽख्यत् तेऽधुना राज्यं वत्स दीक्षोचिताऽऽवयोः । क्रमव्यतिक्रमः कोऽयं भवता . शिक्षितोऽनघ ॥५३७ भवान्धोर्मम निर्यातो द्त हस्तावलम्बनम् । मा स्म क्षिपत तत्रैवेत्युक्त्वा पुत्रोऽपतत् पदोः ॥५३८ माताऽब्रवीन् शृणु वत्स त्वद्वियोगानिलोमिभिः ।। मम प्राणा अमी वेगादुड्डाय्यन्ते पलालवत् ॥५३९ पुत्रोऽवोचदम्ब तर्हि दीक्ष्यते सममेव हि ।। येन नात्र वियोगः स्यान्न चामुत्र शिवास्पदे ॥५४० ततोऽवादीत् पुष्पकेतुर्निर्बन्धश्चेत् तवेदृशः ।
तदा कुसुमचूलोऽयं वत्स राज्येऽभिषिच्यते ॥५४१ ५४१.२. निबंध'.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org