SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ 41५-५२७) चतुर्दश उत्साहः कृत्रिमैर्वचनैरेवं मा प्रतारय मां प्रभो । ततो मुनिर्मुनिरूपं संहृत्याभूत् सुरोत्तमः ॥५१५ ऊचे च पुरि कौशाम्ब्यां सुधर्मस्वामिसन्निधौ । वयं दश परिव्रज्य सौधर्मेऽभूम निर्जराः ॥५१६ श्रीनेमिवचनात् शूरनिर्जरः प्रेत्य बोधये । सर्वैरमान्यत सखे स चाहं शूरनिर्जरः ॥५१७ प्राच्यजन्मनि कौशाम्ब्यां योऽभूच्छेष्ठी पुरन्दरः ।। स्वार्गात् स त्वमयं जातस्त्वद्बोधायाहमागमम् ॥५१८ परस्त्रीकामुकस्त्वं च न वाङ्मात्रेण बुध्यसे । इत्यश्वरूपेण मया व्योम्नाऽऽनीतो महाटवीम् ॥५१९ मया म्लेच्छश्वानरूपैर्बहुधाऽसि कदथितः । आश्वासितश्च मयैव कृत्वा रूपं महामुनेः ॥५२० ततः कुमार जगदे स मया विबुधेश्वरः । एवमेवं व्यतिकरे महात्मन् प्रत्ययोऽस्तु कः ॥५२१ देवेनोक्तं स्मराभोगं विधाय सुधियां निधे । ईहादि सृजतो जातिस्मृतिः कान्ताथ मेऽमिलत् ॥५२२ तदुक्तिप्रत्ययाज्जातो देवोक्तौ प्रत्ययो दृढः । ततो मयोक्तमत्रव दीक्षे नव विलम्ब्यते ॥५२३ सुरोऽवग्दीक्षितस्येयं दुस्तरा ते महाटवी । स्वयं दीक्षाऽप्ययुक्ता तत् त्वां नये पितृसन्निधौ ॥५२४ तत्र प्राग्भवमित्रस्य श्रीजयशासनात्मनः । सूरेः समरसेनस्य दीक्षेथाः सौम्य सन्निधौ ॥५२५ इत्युक्त्वा मां स उत्पाट्य नभोवाहनभूभुजः । सागपथान्वेषिणोऽरण्येऽश्वारूढं पुरतोऽमुचत् ॥५२६ श्रीसमरसेनसूरेनिवेद्य मम वासनाम् । शूरदेवो दिवमुपैद् गुरुः सिंहपुरं पुनः ॥५२७ ५२६.३. श्राग Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy