________________
लीलावतीसारे
[५०२-५१४ अभ्यायान्तं शुनं यावत् कृपाण्या प्रहराम्यहम् ।। गाण्डीवैः शबरास्तावदाजधनुर्मूर्ध्नि मां समम् ॥५०२ विलेगुः सर्वतः श्वानास्ते च मेऽथास्म्यचिन्तयम् । ताभिरुक्तं पुण्यवांस्त्वं हाऽजायत किमन्यथा ॥५०३ अत्रान्तरे लोचचञ्चदुत्तमाङ्गस्तपःकृशः । ईर्यापथस्थिराक्षश्च मलाविलकलेवरः ॥५०४ निगृहीतेन्द्रियग्रामो निकामं कामजित्वरः । तत्रागमत् मुनिरेकः प्रशमो मूर्तिमानिव ॥५०५ तेन ते शबराः प्रोक्ता भोः किमित्येष मार्यते । तैरुक्तमेष भक्ष्यं नो भक्षयिष्याम एव तत् ॥५०६ मुनिः पुनरुवाचतान्नरको जीवहिंसया । ते ऊचुस्तत् किमित्येवं देहिनो मारयत्यसौ ॥५०७ ऋषिः पुनर्बभाषैतान् नैष जीवान् हनिष्यति ।। मुनि ते व्याहरन्ति स्म तत् किं प्रव्रजिष्यति ॥५०८ महर्षिणाऽथ जगदेऽसौ ध्रुवं प्रव्रजिष्यति । तैरुक्तं तद्गृहीत्वाऽमुं व्रजास्माभिरमोच्यसौ ॥५०९ ततोऽस्मि मुनिना प्रोक्त आगच्छागच्छ भद्र भोः । तेन सार्घ प्रस्थितोऽहं गतवांस्त्वरितक्रमम् ॥५१० श्रान्तं विज्ञाय मां साधुनिविष्टः शुद्धभूतले । ततो मयोचे भगवन् कस्त्वं सोऽवगहं मुनिः ॥५११ पुनरूचे मयाऽटव्यामत्र साधुः कथं ननु । के वाऽमी पुरुषा रौद्रा मां गृह्णन्ति किमित्यमी ॥५१२ मुनिर्जगादामी म्लेच्छा भोक्तुं त्वां गृह्णते त्वमी । मयोचे यद्यमी म्लेच्छाः किभिति त्वां न गृह्णते ॥५१३ तत् सत्यमाख्याहि विभो सर्वथाऽहं त्वदाश्रयः ।
किमर्थमपजहेऽहं कस्त्वं के शबरा अमी ॥५१४ . ५११.२. साधुनि. ५१४.२. त्वदाश्रवः.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org