________________
४४९-२०१j
चतुर्दश उत्साह
ऊचुस्ताः शाबरीविद्याऽटव्यां भगवतः पुरः ।। दीयते गृह्यते चापि तेनात्रेदं न्यधाप्यथ ॥४८९५ मयोक्तमायात यूयं किमित्यत्रेति ता जगुः ।। सखे वरेन्द्रो यक्षेन्द्रीभूतः संप्रति वर्तते ॥४९० स च प्रागभक्तिरागेण प्रभु जात्वर्चतिस्वयम् ।... कदाचित् प्रेषयत्यस्मानित्येमः स्वामिशासनात् ॥४९१ ऊचे मया भगवत्यो न मोघं देवदर्शनम् । ..... तबूतारिः योऽश्वरूपो मामित्यापदमानयत् ॥४९२ आस्तामेष ते वैरी देव एष सुहृत् तव । .. न चैषाऽऽपत् किन्तु संपन्मा भैषीः पुण्यवानसि ॥४१३ इत्युक्त्वा तास्तिरोऽभूवन् क्षणादेवेन्द्रजालवत् । अहं तु विस्मितस्तस्माच्चैत्यात् प्रास्थिषि सत्वरम् ॥४९.४ दिव्यरूपं भिल्लवेषमधिज्यीकृतकार्मुकम् । . सारमेयान्वितमथ
नरमद्राक्षमग्रतः ॥४९५ तेनापि सहसाऽस्म्यूचे राजकुल नमोऽस्तु ते । निर्भयेन मयाऽप्यूचे कस्त्वं भोः कुत आगमः ॥४९६ ग्रामस्वामिसुतो ग्रामादासन्नादिति सोऽवदत् । . . मां नयात्र मयेत्युक्तः समागच्छेति सोऽब्रवीत् ॥४९७ तेन साधं यामि यावत् तावत् कुग्रामसन्निधौ । शबराः पुडितशरा यमस्यापि भयङ्कराः ॥४९८ मारय मारयेत्युच्चैगिरः पेतुर्ममोपरि । मयैक्षि प्राङ्नरस्यास्यं किमेतदतिभीषणम् ॥४९९ सोऽपि विद्यद्घोषघोरमट्टहासममुञ्चत । शुनश्च प्रेरयामास मां प्रति प्रतिपन्थिवत् ॥५०० व्याघ्रवद्दत्तफालास्ते पृष्ठतः पार्श्वतोऽग्रतः ।
आगत्याकुलयामासुः प्रेतेशस्येव किङ्कराः ॥५०१ ४८९.४. 'प्यव. ४९३.१. आस्ताने. ५०१.१. दत्तफला'.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org