________________
लीलावतीसारे ततश्छुर्या तुरङ्गोऽसौ कुक्षिदेशे मया हतः । छिन्नविद्यः खेट इव स पपात महीतले ॥४७५ तस्मादपतितादेव फालेनोत्तीर्णवानहम् । ऊरीकृत्य दिशं चैकां प्रतस्थे स्थेमवांस्ततः ॥४७६ अथाद्राक्षं वनषण्डमेक पक्षिकुलाकुलम् । सम्भाव्यमानसलिलाशयमाशयसौस्थ्यकृत् ॥४७७ ' तस्मिन् विशन्नेव जिनमवनं भुवनादभुतम् । प्रेक्षामास तदासन्नं सरश्च भुवनाद्भुतम् ॥४७८ अनावहोलिकां तत्राधायादायाम्बुजानि च । युगादिजिनमानञ्च प्राञ्चद्रोमाञ्चकञ्चुकः ॥४७९ नवैः स्तवैः प्रभुं स्तुत्वा शुद्धरागैः प्रगाय च । स्थितो बहिर्वेदिकायां यावत् पश्यामि सर्वतः ॥४८० तावदिव्या नायिकैका निर्ययौ संरसस्ततः । तदन्वन्या अपि घना निष्पुण्यालभ्यदर्शनाः ॥४८१ ततो दध्ये मयाऽश्वेनापहारोऽपि ममेष्टकृत् । यदीदृग् दिव्यवनितादर्शनं समपादि मे ॥४८२ स्नात्वा ततः सरसि ता गृहीत्वा कमलानि च । समाजग्मुस्तत्र चैत्ये मयाऽभ्युत्तस्थिरे च ताः ॥४८३ करसंज्ञया निवेश्य मामिमा वीक्ष्य चार्चितम् । प्रभु मिथः प्रोचुरा/देष तत् समधार्मिकः ॥४८४ तच्च श्रुत्वा मया दध्ये प्रीणयिष्यन्ति मामिमाः । ततोऽपनीय मत्पूजामानचुस्ता जगत्प्रभुम् ॥४८५ स्तुत्वा गीत्वा च तीर्थेशं प्रस्थितास्तास्ततो मया । प्रणामपूर्व भणिताः का यूयं किमिहागताः ॥४८६ ताभिरूचे यक्षकन्या जिनार्चार्थमिहागताः । मया .पृष्टं पुनः केनाकार्यतैतज्जिनास्पदम् ॥४८७ श्रीविद्याधरराजेनेत्युक्ते ताभिर्मयोच्यत । किमित्यस्यां महाटव्यां तेनेदं निरमाप्यत ॥४८८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org