________________
४११-४७४]
चतुर्दश उत्साहः पुरन्दरर्षिदेवोऽपि वराटे सिंहपत्तने । नभोवाहनकमलावत्योः सूनुः सुरन्धरः ॥४६१ बोधितस्तेन देवेन दीक्षितश्च मया त्वसौ । सुलक्षणर्षिजीवस्तु त्वमेव कृतिनां वर ॥४६२ ततस्त्वद्बोधविधये वयमत्र समागताः । प्राञ्जलिः श्रीकुमारोऽवक् प्रभूणां स्वागतं खलु ॥४६३ पूज्यैरनुगृहीतोऽस्मि तत् कुर्वे सफलं जनुः । आपृच्छय मातापितरौ प्रेयस्यौ च द्रुतं द्रुतम् ॥४६४ सुरसुन्दरीरमणमत्यौ तत्पुर ऊचतुः । पृच्छये किमार्यपुत्रावां सत्यः पत्यनुगाः खलु ॥४६५ आख्यत् कुमारः साधूक्तं युवाभ्यां स्वकुलोचितम् । राज्ये हि सर्वे सखायः प्रव्रज्यायां तु केचन ॥४६६ अथ कर्णे प्रविश्योचे कुमारं सुरसुन्दरी । येनापहारिताऽस्म्येष महर्षिः श्रीसुरन्धरः ॥४६७ कुमारेणाथ वन्दित्वा स्मित्वा चौच्यत मुन्यसौ ।। भगवन् सुरसुन्दर्या यद्यर्थोऽमुं गृहाण तत् ॥४६८ मुनिरुचे महाभाग सर्वावद्यभिदापटुः । दीक्षा मया कृता कान्ता मुक्तिकान्तोत्सवप्रदा ॥४६९ कुमारः प्राह धन्योऽसि जीवितं ते फलेग्रहि । किन्त्वश्वापहृतेः पश्चान्महर्षे किं किमन्वभूः ॥४७० कथं मुक्तिपुरीव्रज्यां प्रव्रज्यां प्रत्यपद्यथाः । यदि कथ्यं तदिदं मे प्रसद्य प्रतिपादय ॥४७१ अनुज्ञातोऽथ गुरुणा स्ववृत्तान्तमशेषतः । स मुनिः श्रीकुमारस्य वक्तुमेवं प्रचक्रमे ॥४७२ तस्मिन्नुत्पतिते वेगाद् याति चाश्वे विहायसा । मयेति चिन्तयाञ्चक्रे नाश्वमात्रमयं ध्रुवम् ॥४७३ तदयं हयरूपेण कोऽप्यहो मम वैरिकः ।।
वैरिके धीरवीरैश्च प्रहर्तव्यमशक्कितम् ॥४७४ . Lila.-45
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org