SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ लीलावतीसारे [१४९- तौ यथास्थानमासीनौ ज्ञानधाराधरः प्रभुः । सद्देशनासुधावृष्ट्या प्रीणयामास सर्वतः ॥४४९ तथा हि - रागद्वेषकषायमोहमुखरैर्भूतैः सदाऽधिष्ठिते संसारावसथे चतुर्गतिचतुर्भूमे नृणां न्यूषुषाम् । नानोपद्रववृन्दमेव सततं सा तस्य वार्ताऽनृता तद्भूतै रहिते निवस्तुमुचितं श्रीसिद्धिसौधे बुधाः ॥४५० ज्ञानदर्शनचारित्रपवित्राः संनिवस्तुमिह हन्त लभन्ते । तबुधास्त्रितयमेतदवश्यं वश्यमातनुत यात च सिद्धिम् ॥४५१ तद्देशना . सुधास्वादपरीणामस्य मात्रया । केऽप्यापुस्तिर्यनृसुरा मिथ्यात्वविषसंहृतिम् ॥४५२ अपरे तु नृतिर्यञ्चो देशसन्तोषमप्यलम् । . सर्वसन्तोषसम्पत्तिमप्यन्ये नरपुङ्गवाः ॥४५३॥ युग्मम् अथ सर्वा सभोत्तस्थौ तस्थौ कुसुमशेखरः । ततो गुरुभिरूचेऽसौ सौम्यागाम भवत्कृते ॥४५४ यच्चिरं नः संस्तुतोऽसि किं न स्मरसि धीनिधे । कौशाम्ब्यादि शूरदेवप्रान्तं वृत्तान्तमात्मनः ॥४५५ यः प्राभातिकवैराग्यपाठी शूरामरः स च ।। तथा जयशासनर्षिदेवो मलयमण्डले ॥४५६ कुशावर्तपुरे श्रीमज्जयशेखरभूभुजः । देव्या तु वनमञ्जर्याः पुत्रः शूरप्रबोधितः ॥४५७ नन्दनाचार्यपादान्ते दीक्षितस्तैः पदे निजे । स्थापितश्च श्रीसमरसेनः सोऽहं नृपाङ्गजः ॥४५८॥ त्रिभिर्विशेषकम् यो रामदेवर्षिजीवः सुराष्टाविषये पुरे । गिरिनगरेऽभूत् पुत्रो वत्सराजजयश्रियोः ॥४५९ कुमारो विमलसेनस्तेन देवेन बोधितः । मया परित्राजितश्च राजर्षिः सैष वीक्ष्यताम् ॥४६०॥ युग्मम् ४५९.४. वत्साराज'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy