SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ ३५१ ४३६-४४८ चतुर्दश उत्साहः अथोचे शूरदेवेन भोस्त्वां बोधयितुं ध्रुवम् । . श्रीसमरसेनसूरिसूरः प्रातरुदेष्यति ॥४३६ गम्यं त्वया तस्य पाव विधातव्यं तदीरितम् । इत्याश्रुतं कुमारेण देवः स्वस्थानमैयत ॥४३७ ततो यावत् कृतप्राभातिकावश्यकमङ्गलः ।। मातापित्रोर्वन्दनाय प्रस्थितः पुष्पशेखरः ॥४३८ उद्यानपालकोऽभ्येत्य तावत् प्रियनिवेदकः । प्रणिपत्य कुमारांही प्राञ्जलीति व्यजिज्ञपत् ॥४३९॥ युग्मम् देव श्रीसुमनःश्रेणीसेव्ये श्रीतिलकाद्भुते । स्फुरत्पुन्नागपूगाढये सर्वतोऽशोकमण्डिते ॥४४७ नानाशाखागतविप्रसेवितेऽद्भुतजातिके । उर्चवंशे महोद्याने त्वत्प्रतिच्छन्दके किल ॥४४१ साधुशाखाविरोचिष्णुर्नानातिशयपुष्पितः । सुरासुरनरासेव्यपादमूलमहीतलः ॥४४२ चतुर्ज्ञानी देवतानां लीलावाससहोदरः । श्रीसमरसेनसूरिः कल्पद्रुः समवासरत् ॥४४३॥ चतुर्भिः कलापकम् xxx xxx xxx । xxx xxx xxx ॥४४४ पारितोषिकवृष्ट्या संप्रीण्य प्रियनिवेदकम् । प्रमोदबाष्पमुदिरः सद्यः कुसुमशेखरः ॥४४५ गत्वा प्रणम्य पितरौ हर्षरोमाञ्चचञ्चुरः । गुरुराजागमोदन्तभणित्या स्रागवीवृधत् ॥४४६ ततः श्रीकुसुमकेतुस्तथा कुसुमशेखरः । सामन्तामात्यपौराद्यैः सार्धमन्तः पुरेण च ॥४४७ तं सद्गुरुं नमस्कर्तु जगामोद्यानमुत्सुकः । त्रिःप्रदक्षिणनापूर्व नमस्यामास चादरात् ॥४४८॥ युग्मम् ४४३.४. समरवासरत्. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy