________________
३५०
लीलावतीसारे
[४२३-४३५ पुमांसोऽन्येऽपि बहवः कामकिपाकभोगिनः । सुदुर्गा दुर्गति प्रापुर्धिक् कामान् मुञ्च मुञ्च तत् ॥४२३ इत्यादिकं पठित्वाऽसौ सुरोऽयासीद् यथागतम् । द्वितीयेऽहि पुनस्तस्य वैराग्यायापठत्तराम् ॥४२४ पुनस्तृतीयेऽयपाठीत्तमां वैराग्यकार्मणम् । कुमारोऽचिन्तयदये वैराग्यं कः पठत्ययम् ॥४२५ ततः पृष्टाः कुमारेण पार्श्वस्थाः कः पठत्ययम् । त ऊचुर्नेक्ष्यते कश्चित् केवलं श्रूयते ध्वनिः ॥४२६ दध्यौ कुमारो यद्येष पुनः प्रातः समेष्यति । तदा प्रक्षाम्यस्म्यवश्यं सोऽथ तुर्यदिनेऽपठत् ॥४२७ किं नावधानं मद्वाक्ये कुमारवर दीयते । इति यावत् पठत्येष तावत् तं राट्सुतोऽभ्यधात् ॥४२८ कस्त्वं भोः किञ्च वैराग्यं पठस्येवं दिने दिने । सोऽवक् कुमार विस्मारिशीलता तेऽभवत् कुतः ॥४२९
यतः -
कौशाम्ब्यां श्रीसुधर्माग्रे प्रवव्राज सुलक्षणः । नवान्येऽपि दशाप्यापुर्दिवि शक्रसमानताम् ॥४३० श्रीनेमिपृच्छया सूरमाननं प्रेत्य बोधये । तदेतत् स्मर कुमार त्वमेव हि सुलक्षणः ॥४३१ स्थित्वा दिव्यविमानेषु ताभिरद्भुतमीरुभिः ।। तया च सामानिकद्धर्या परीवारेण तेन च ॥४३२ किं दावश्मेष्टकागेहे योषाभिर्मलखानिभिः । अल्पीयस्या श्रियाऽनेन परिवारेण मुह्यसि ॥४३३ इति श्रुत्वा ततो देवादीहापोहादितोऽलभत् । न्यासीकृतमिव जातिस्मरणं पुष्पशेखरः ॥४३४ । ततः कुमारस्तमूचे स्वागतं स्वागतं तव । महाभाग तथा धेहि प्रवज्या स्याद्यथा मम ॥४३५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org