________________
४१०-४२२]
चतुर्दश उत्साहः देव्या कनकलतया सह सामन्तमन्त्रिभिः । पुरी प्रत्यप्रतिपथां प्रतिपन्थिकथातिगाम् ॥४१०.. स्ववंशशेखरं प्रत्यानेतुं कुसुमशेखरम् । प्रतस्थे कुसुमकेतुः केतुदन्तुरिताम्बरः ॥४११॥ त्रिभिर्विशेषकम् अविलम्बितप्रयाणैः प्राप्तस्तत्पुरसीमनि । मन्त्रिणा ज्ञापयामास स्वागमं रामभूपतेः ॥४१२ ततश्च श्रीरामचन्द्रः सश्रीकुसुमशेखरः । तमभ्यागान्महद्धर्याऽभूत् सर्वेषां प्रियमेलकः ॥४१३ श्रीपुष्पकेतुकल्पद्रू रामचन्द्रनृपार्चितः ।। सहग्रामसहस्रणाफलत् करिहयादिभिः ॥४१४ कुमारं सह जायाभ्यामादाय भगुपत्तनम् । प्राप श्रीकुसुमकेतुः केतुतोरणमालितम् ॥४१५ दीनानाथवहद्दानं निदानं हर्षसम्पदाम् । कुमारागमने राजा वर्धापनमचीकरत् ।।४१६ एवं च मेदुरामन्दानन्दतुन्दिलितात्मनाम् । तेषां दिनान्यनेकानि व्यतिजग्मुनिमेषवत् ॥४१७ ततश्च भोः सिंहराजगुरुभिः शूरनिर्जरः । कुमारस्य चरणश्रीवरणाय न्यदिश्यत ॥४१८ सोऽथ देवस्तत्र गत्वा प्रत्युषःपाठकक्षणे । अन्तरिक्षेऽनीक्ष्यभूर्तिः पपाठ प्रस्फुटाक्षरम् ।।४१९ धिग धिग् विषयमनसोऽसंप्राप्तविषयाः क्षणात् । विषयाविनिवृत्तत्वाद् दुर्गतिं यान्ति जन्तवः ॥४२० त्वया कामकृते सौम्य किं न व्यसनमाप्यत । वियोगे सुरसुन्दर्यास्तत् कामेभ्यो नमस्कुरु ॥४२१ कामार्तेन दशास्येन लेभेऽत्रामुत्र किं ननु ।
सुभूमब्रह्मदत्तौ च कामासक्तौ किमापतुः ॥४२२ ४१२.४. स्वांगमं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org