________________
३२८
लीलावतीसारे
[१२८-१४१
लावण्यपुण्यास्तरुण्यः सन्तु तत्त्वान्तरं तु सा । द्राक्षाद्याः स्वादवः सन्ति मुधैवान्धः सुधान्धसाम् ॥१२८. कुमारोऽथाभजन्मौनममर्षात् त्वित्यचिन्तयत् । सुरन्धरस्तदाऽहं यद्यादास्ये सुरसुन्दरी ॥१२९ धनावहमथोदृिश्य ब्रह्मणा सोऽष्टमं व्यधात् । धनावहसुरोऽथागात् किं करोमीति चाब्रवीत् ॥१३० सुरन्धरोऽवक् कुसुमशेखरात् सुरसुन्दरीम् । ममार्पय सुरोऽवादीत् परदारकथाऽपि धिक् ॥१३१ कुमारोऽथाह सा नैव परदारा ममैव सा । यतो पित्रा ददे सा मे मात्रैव कृतमन्यथा ॥१३२ या येनोढा तस्य सेति सुरेणोक्ते च सोऽवदत् । न कर्ताऽसि मदिष्टं चेत् तद् वृथा किमिहागमः ॥१३३ यद्येष तव निर्बन्धस्तदाऽऽनीतैव सा सखे । इत्युदित्वा सत्यसन्धः सुरो दृश्येतरोऽभवत् ॥१३४ स चागमद्भगुपुरं तत्रापि नृपमन्दिरम् । तत्रापि च श्रीकुसुमशेखरस्य निकेतनम् ॥१३५ तत्रापि चन्द्रशालायां शय्यायां स व्यलोकयत् । पत्या सह रतिक्लान्तां विश्रान्तां सुरसुन्दरीम् ॥१३६ इमामीदग्विधावस्था पत्या सह वियोजयन् । निष्ठ्यानामपि चास्पृश्यो भविष्याम्यस्मि पातकी ॥१३७ यद्वा भवतु यत्किञ्चित् कार्यमेवोररीकृतम् । प्राणान् प्राणाधिकं रामं ह्यस्मै दशरथोऽमुचत् ॥१३८ विचिन्त्येति सुरः सैष जहार सुरसुन्दरीम् । सद्यः सा च जजागार पूच्चकार च निर्भरम् ॥१३९ आर्यपुत्रार्यपुत्रास्मि हिये केनापि पाप्मना । धाव धाव रक्ष रक्ष क्षत्रियोत्तम मां प्रिय ॥१४० तस्याः करुणशब्देन विबुद्धो नृपनन्दनः । धीरा भवैष रक्षामीत्याख्यन्नसिसुदुःस्थितः ॥१४१
१३०.१. मियोदिश्य,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org