SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ ३२७ २१८-१२७ ] चतुर्दश उत्साहः ततः सखेदमूचे तां पश्येतः सुरसुन्दरि । इहैव स्वकृतकर्म विपाकमयमश्नुते ॥११८ प्रियदर्शना - शतखण्डं ह्यन इव स्याद्गोत्रस्खलितेन हृत् । योषितामिति यन्त्रेव भत्रेदं वय॑मादरात् ॥११९ सुरन्धर - यदि ब्रूवीत दयितां दयितान्तरनामतः । दयितः स्यात् तदा गोत्रस्खलनं न स्वनामतः ॥१२० प्रियदर्शना - स्वनामवन्मम नाम चिरं घोषितमप्यहो । ममाभाग्येन केनेदमकस्मात् प्रिय विस्मृतम् ॥१२१ प्रिय प्रियदर्शनाहं नैवाहं सुरसुन्दरी । तदन्यनाम्ना मां जल्पन् गोत्रस्खलितमापिथ ॥१२२ सुरन्धर - यद्यवं तव पित्रा किं कृताऽऽरख्या सुरसुन्दरी । पितृक्लुप्तारव्यया वक्तुर्न मन्तु, मनागपि ॥१२३ प्रियदर्शना - या सुरसुन्दरी नाम्ना साऽम्बया भृगुपत्तने । पुरैव प्रेषि कुसुमशेखराय स्वयंवरा ॥१२४ सुरन्धरस्ततो xxxxx नाऽस्मि वञ्चितः । यदि वा किं तयैषाऽपि प्राणेभ्योऽपि प्रिया मम ॥१२५ सुरन्धर - द्विधा प्रियदर्शनाऽसि तत् त्वं मे सुरसुन्दरी ।। सुरसुन्दर्याः शिरसि किं विषाणं विजम्भते ॥१२६ प्रियदर्शना - महाप्रसादोऽयमद्य यद्यारोपो यथातथः । परं न काञ्चनारं स्यादारोपात् चम्पकं कचित् ॥१२७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy