________________
लीलावतीसारे
[१०४-२१७ तदौर्ध्वदेहिकं कृत्वा क्रमेणाथ सुरन्धरः । क्षेमाज्जयपुरं प्राप प्राविक्षच्च महोत्सवैः ॥१०४ श्रीरत्नवल्लभेनाऽथ हृत्वाऽमात्या इतीरिताः । मया यात्रां गतेनास्य मनिता सुरसुन्दरी ॥१०५ सा च मात्रा भृगुपुरे प्रहिता प्राक् स्वयंवरा । प्राप्तकालं तदिह किं विचार्य ब्रूत मन्त्रिणः ॥१०६ श्रीबुद्धिसागरोऽवोचद्देवेयं प्रियदर्शना । रत्नमालाकुक्षिरत्नमेतस्मै दीयतामिति ॥१०७ न पुनर्ज्ञाप्यतेऽमुष्य नैवेयं सुरसुन्दरी । तदभ्युपेत्य राट् चक्रे विवाहोत्सवमेतयोः ॥१०८ लीलागृहे कुमारोऽस्थात् प्रियदर्शनया सह । तत्सखीभिस्तदुचितपरिहासं व्यधत्त च ॥१०९ प्रियां चाऽऽख्यत् किं न सख्यः प्रेष्यन्ते सुरसुन्दरि । ततः सतालं सखीभिः स्मितं क सुरसुन्दरी ॥११० देव प्रियदर्शनाऽसौ नैवेयं सुरसुन्दरी । ततः सुरन्धरो दध्यावसम्बद्धमिदं किमु ॥१११ धाब्यूचेऽस्या नाम चक्रे जनन्या प्रियदर्शना । सुरसुन्दरीति पित्राऽमूर्जानन्त्येकमेव . हि ॥११२ तन्नात्र विस्मयः कार्यस्ततो रेमे मुदा तया । तया च कमलिन्येव वासितं तस्य मानसम् ॥११३ धाव्याऽथ नामवृत्तान्ते कथिते राट् सच्चकार ताम् । सत्कृत्य पुञ्या सहामुं स्वं पुरं प्राहिणोत् नृपः ॥११४ पदे पदे प्रीण्यमानः सुजनैः शकुनैरिव । स च सिंहपुरं प्राप प्राविक्षच्च महोत्सवैः ॥११५ प्रियदर्शनया साधं रमयेव रमापतिः । सौधे दुग्धसिन्धुबन्धौ स व्यलासीदिवानिशम् ॥११३ वातायनस्थितोऽन्येद्युस्तया सह सुरन्धरः । खरारूढं चौरमेकं नीयमानं व्यलोकयत् ॥११७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org