________________
९०-१०३]
चतुर्दश उत्साहः तत्सार्थोदन्तमज्ञासीत् प्राप्तस्तत्र सुरन्धरः । तत्रावास्य ततस्तेन चरटा भाणिता इति ॥९० धनावहं सर्सवस्वं द्रुतमेव विमुञ्चत । दक्षिणेशपुरे यद्वा गृह्णीतावक्रयाश्रयम् ॥९१ विचार्य बहुशस्तेऽथ प्रधाननरपाणिना । धनावहं कुमाराय प्रददुर्व्यस्तवस्तुवत् ॥९२ सादरं स कुमारेणोपगूह्य स्थापितो रहः । आदिष्टा गौरवाद् वैद्याः प्रगुणीकुरुताश्वमुम् ॥९३ चरटानां तत्प्रधानैः कुमारणेत्यभाण्यत । धनावहस्य सर्वस्वं दत्त मोक्षो न वोऽन्यथा ॥९४ यूयं मित्रार्पणामित्रं ममेत्येभ्योऽपसर्पथ । अन्येषां जीवितं नैव सहाम्यस्मि कृतान्तवत् ॥९५ चरटानां च तैः पुंभिः कुमारोक्ते निवेदिते । सार्थसर्वस्वदानात् तैः कुभारः प्रभुरादधे ॥९६ अथासाध्यतया वेद्यैः व्यमुच्यत धनावहः ।। कुमारसुहृदाऽनूचे जिनदासेन धीमता ॥९७ बाढं परिचितान्मृत्योर्मा भैषीधीरशेखर । एतस्य जित्वरं शत्रं हृदावह धनावह ॥९८ तच्चाहन् देव एतस्य भाषितं ब्रह्मवान् गुरुः । प्रमाणमिति सम्यक्त्वं पञ्चाणुव्रतधारणम् ॥९९ . परमेष्ठिनमस्कारोऽनशनं क्षमणं तथा । इति पण्डितमरणं सर्वमृत्युभयापहम् ॥१००॥ युग्मम् सर्वमन्यद् विमुच्येदं धनावह दृढीकुरु । येनात्रापि परत्रापि वृण्वते त्वां शिवश्रियः ॥१०१ तेनाप्यूरीकृतं भावात् सर्वमेतत् समाधिना । विपद्य स च सौधर्मे जज्ञे वैमानिकः सुरः ॥१०२ सुरन्धरकुमारेण प्रान्ते संदिदिशे त्वसो । स्मृतः सन्निदधीथा मे तत् तेनाऽपि प्रतिश्रुतम् ॥१०३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org