________________
लीलावतीसारे
[७७-८९ आगतास्तेऽभ्यधुर्देव नभोवाहनभूपतिः । भवदुक्तं बहु मेने संदिदेश च किञ्चन ॥७७ युष्मत्कृतकुमारावग्रहश्रवणशल्यिता । कुमारादर्शने देवी न भुङ्क्ते कमलावती ॥७८ तत् कुमारो गृहमेतु नत्वा च पितरौ द्रुतम् । समेष्यति भवत्पाद्यं तन्मेने रत्नवल्लभः ॥७९ सम्भाविताधिककार्यसिद्धया प्रमदमेदुरौ । प्राप्तौ स्वं स्वं पुरं रत्नवल्लभश्रीसुरंधरौ ॥८० अथ भूमीभुजा ज्ञातं यथा देव्या व्यसृज्यत । सुरसुन्दरी कुसुमशेखराय स्वयंवरा ॥८१ हाहा दुष्ठुकृतं देव्या कृतस्य च कृतिर्न हि । प्रखियेति चिरं रत्नवल्लभो मौनमाश्रयत् ॥८२ सुरन्धरकुमारे च स्वपुरं द्रुतमीयुषि । आनन्दसागरः पित्रोर_लिहलयंभूत् ॥८३ अन्यदाऽऽदिष्टः पितृभ्यामुद्वोढुं सुरसुन्दरीम् ।। सुरन्धरश्चारुचम्वाऽचालीज्जयपुरं प्रति ॥८४ अथाऽग्रतः सिंहापुरान्नभोवाहनरादप्रियः ।। सुरन्धरकुमारस्य मित्रं भुवनवत्सलः ॥८५ दाता प्रियंवदो भोगी धनी नाम्ना धनावहः । अघोष्य (?) गुरुसार्थेनाचलज्जयपुरं प्रति ॥८६॥ युग्मम् स च प्रत्यन्तचरटैर्ग्रहीतुमुपचक्रमे । ग्रहीतुं शक्यते नैव योद्धृबाहुल्यतः परम् ॥८७ सौप्तिकं ते व्यधुः सार्थे योधा नष्टाः शृगालवत् । धनावहोऽसिना युध्यमानो जर्जरितोऽसिभिः ॥८८ चरटैर्जगृहे सोऽथ सार्थः सर्वो व्यलुण्टयत ।
धनावहं ससर्वस्वं गृहीत्वा चरटा ययुः ॥८९ ८२.१. दुष्टु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org