SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ चतुर्दश उत्साहः तस्य निःसामान्यरूपकमला कमलावती । अन्तःपुरमिवात्यन्तं विभूषयति हृत्पुरम् ॥३८ सा चान्यदा निशा शेषे स्वकीयोत्सङ्गशृङ्गगम् । मृगपुङ्गवमद्राक्षीत् साक्षीभूतं सुतश्रियः ॥३९ ततः पुरन्दरमुनिजीवो जीवातुरोजसाम् । तस्याः कुक्षौ रत्नखन्यामाद्यस्वर्गादवातरत् ॥४० जन्मोत्सव नामधेयोत्सवश्च भुवोत्सव । सुरन्धर इति नाम चास्य कर्णोत्सवोऽभवत् ॥४१ कलाचार्यैीऽध्यापयंस्तं निष्प्रतिप्रतिभोदयम् । अध्यापकाध्याप्यभावविपर्ययममन्यत ॥४२ यौवराज्ये तथोदारदारराज्येऽभ्यषिच्य तम् । पृथक् प्रासादे स्वमूर्तप्रसादे नु न्यधान्नृपः ॥४३ अथ प्रत्यन्तिकाः केचिन्नभोवाहनभूभुजः । गिरिदुर्गबलात् सिंहा इव देशमुपाद्रवन् ॥४४ तद्देशवासिभिः सिंहद्वारे भूपस्य पुत्कृतम् । कृतं च राजा दुर्धर्षामर्षादास्थानवीक्षितम् ॥४५ ततः सुरन्धरो राजः पादौ नत्वा व्यजिज्ञपत् । क्व देवः क्व च ते क्षुद्राः क्व मृगेन्द्रो मृगाः क्व च ॥४६ देवपादा ददत्वाज्ञां ममैवाज्ञानुजीविनः । तच्छिरः कमलैर्येनाभ्यर्चामि स्वामिनः पदौ ॥४७ राजा ततो व्याजहार वत्सास्मज्जीवितैरपि । सुचिरं नन्द जैवातृकतामा सेदिवान् भुवि ॥४८ अस्मदीयो दण्ड एव दण्डं निर्माय विद्विषाम् । तदीयसर्वस्वमपि क्षणाद्दण्डं ग्रहीष्यति ॥ ४९ मन्त्र्यूचे विमलमतिर्विचारो नैष सुन्दरः । प्रतिहस्ता हि कार्याणि नाशयन्ति कुमित्रवत् ||५० ४१.३. सुरंध. Lila. 41 ३८-५० ] Jain Education International For Private & Personal Use Only ३२१ www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy