________________
३२०
लीलावतीसारे किं यैरत्रोपमीयन्ते गायनाः साधु वेत्सि भोः ॥२५ युष्मद्गीते कौतुकं गायतं क्षणमत्र तत् । ताभ्यां च गातुमारेभे चमच्चक्रे च राजसूः ॥२६ किन्नरोऽवकू कुमार त्वं वाद्यं किञ्चन वादय ।। वाद्यतालानुसारेण सुषमां गीतमेति यत् ॥२७ कुमारोऽवादयत् पटातोद्यं मिथुनकं तु तत् । जगौ विषमतालेन कुमारोऽवीवदत् तथा ॥२८ गीते विषमतालेऽपि न पुनः क्वचनास्खलत् । अथोचतुर्विस्मितौ तौ गाय त्वमपि राटसुत ॥२९ जेगीयमानः कुमारः किन्नरावत्यशेत तौ । यथाप्रश्नं सर्वकलास्वेष तावत्यरञ्जयत् ॥३० गुणैः कलाभीरूपेण विनयेन नयेन च । तस्य तुष्टं मयुयुगं वरं वृण्वित्यभाषत ॥३१ स्मृतावागन्तव्यमिति कुमारोक्तं प्रपद्य तौ । किन्नरौ स्वास्पदमितौ रन्त्वोच्चै राजसूरपि ॥३२ इतश्च पयसादेशे श्रीमज्जयपुरं पुरम् । जयश्रीवल्लभो रत्नवल्लभस्तत्र भूपतिः ॥३३ लीलावतीशिरारत्नं रत्नचूलाऽस्य देव्यभूत । यां वीक्ष्येव रमागौया पत्युरङ्गं न मुञ्चतः ॥३४ तयोः प्राक्पुण्यसंसरस्फुरत्सौन्दर्यसुन्दरी ।
श्रीसुरसुन्दरीश्लाघ्या पुन्यभूत सुरसुन्दरी ॥३५ चञ्चच्चम्पकहेमकेतकनभोगङ्गासरोजश्रियां
ज्योत्स्नामौक्तिकचन्द्रकान्तमहसां सारं शिरीषश्रियाम् । यद्यादाय विधिः प्रमृज्य सुधया काञ्चित् सृजेत् सुन्दरी
तस्या अप्युपदास्पदं प्रतिपदं मन्ये यदंहिश्रियः ॥ ३६ इतश्च - वराटानामदेशोऽस्ति तत्र सिंहपुरं पुरम् । सिंहोऽरिदन्तिषु नभोवाहनोऽत्र महीपतिः ॥३७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org