SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ ___३१९ १२-२४] चतुर्दश उत्साहः इतश्चातीवरम्यात्वात् तस्योद्यानस्य सर्वतः ।। स्वैरचारितया देवजातेः क्रीडितुमुत्त्वरम् ॥१२ किन्नरद्वन्द्वमत्रागान्मिथःप्रेमोर्मिवमितम् । रम्ये च कदलीगेहे रहसि प्रविवेश च ॥१३॥ युग्मम् तत्रैव रम्भाधाम्न्यागात् कुमारोऽपि रिरंसया । ज्ञात्वा च मिथुनं मध्ये कुमारोऽपासरद् द्रुतम् ॥१४ तद्वन्द्वनिःसारणाय नरं प्रेषीन्नरेन्द्रसूः । तद्वन्द्वं तेन पुंसोचे रे द्रुतं निःसरामुतः ॥१५ तया खरगिरा रुष्टो देवोऽवग्दर्शयामि ते । फलं दुर्विनयस्यास्य रे तिष्ठात्रैव दुर्मुख ॥१६ तद्वचो राजसूः श्रुत्वा पुंसाऽन्येन निषेव्य तम् । स्वागतोक्तिपूर्वमेतद् द्वन्द्वमेवमबीभणत् ॥१७ न कोपितव्यं भवद्भिः किञ्चित् प्रष्टव्यमस्ति मे । तदायात द्रोस्तलेऽस्येत्युक्ते पुंसा सगौरवम् ॥१८ सुरो जगाद न वयं कुमारादेशगाचाराः । चेत् प्रष्टव्यं किञ्चिदस्ति किं नात्रागत्य पृच्छति ॥१९ पुंसोचे तत् कुमारस्य तत्पार्श्वऽगात् स चैककः । अभ्युत्तस्थे स युग्मेन प्रेम्णा स्वागतवादिना ॥२० दत्तासनोऽथ किन्नर्याऽऽसीनोऽवादीन् नृपाङ्गजः । भवद्भ्यामन्वगृह्येऽहं यदुद्यानमलङ्कृतम् ॥२१ किं चानियोज्ययोरेव नियोगं युवयोर्ददे । नित्यं युयाभ्यामुद्यानमिदं पाव्यं निजक्रमैः ॥२२ स्यातां पवित्रे मन्नेत्र यद्युष्मदर्शनामृतैः । महतां दर्शनं तीर्थदर्शनाधिकमुच्यते ॥२३ ताभ्यामथोचे धन्ये नो नेत्रे श्रोत्रे च सत्तम । पपे यकाभ्यां त्वद्रूपं त्वद्वचश्च सुधोपमम् ॥२४ को युवामिति तत् पृष्टे तो ब्रूतः किन्नराविति । १६.४. दुर्मुखः. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy