SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ चतुर्दश उत्साहः इतश्च - क्षोणीललाटदेशे नु लाटदेशेऽस्ति विश्रुतम् । मणीतिलकसंकाशं भृगुकच्छं महापुरम् ॥१ राजाऽत्र कुसुमकेतुर्मानकेतुरिवाऽपरः । जगज्जैत्रशरो रेजे भवसर्वकषः परम् ॥२ मङ्गल्या विनयोज्ज्वाला मिथ्यात्वविषनाशिनी । अदाह्या गुळकुत्स्या च श्रीशीलस्य रसायनम् ॥३ प्रदक्षिणावर्तरम्येत्यष्टस्पष्टगुणोरबणा स्थाने श्रीकनकलता नाम्ना जानेऽस्य देव्यभूत् ॥४॥ युग्मम् भुजानयोस्तयो गान् यथावसरमद्भुतान् । सुलक्षणमहासाधुजीवः स्वर्गात् । ततश्च्यूतः ॥५ वपुष्मदानन्दपिण्डसमपिण्डवपुलतः कुलप्रदीपः पुत्रोऽभून्नाम्ना कुसुमशेखरः ॥६॥ युग्मम् सोऽधीती सर्वशास्त्रेषु सर्वशस्त्रेषु कौशली । पतिः पाणिगृहीतीनां यौवराज्यश्रियोऽप्यभूत् ।।७ अन्यदोद्यानपालेन दत्तनाम्ना स भूपभूः । श्रीवसन्तावतारेणावर्धाप्यत कृताञ्जलि ॥८ सर्वाशाचक्रविचरन्मलयानिलशासनः प्रगीतो मत्तमधुपैर्वाद्यपिकजयानकः ॥९ प्रतिद्रुमूर्धविस्मेरपुष्पशृङ्गारभासुरः बसन्तराजो विलसत्युद्याने देवनन्दने ॥१०॥ युग्मम् हस्त्यश्वरथपादातान्तः पुरेण वृतस्ततः । रन्तुं श्रीनन्दनोद्याने ययौ कुसुमशेखरः ॥११ ७.१. सर्वा'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy