________________
રરર
लीलावतीसारे
[५१-६३
यतः - दण्डाधिपाः कूटहृदो लोभात् स्वाम्यर्थनाशकाः । रिपुलञ्चामुपजीव्य दीव्यन्तीशक्रियालसाः ॥५१ कुमारस्य प्रयाणं तु सर्वथा न खलुचितम् । राज्यसारं कुमारोऽयं जीवताच्चन्द्रकालिकम् ॥५२ स्वामिनः स्वयमुद्योगो देव सम्प्रति साम्प्रतम् । सुस्वामिनः पुरः सर्वे यतः स्वाम्यर्थकारिणः ॥५३ राजाऽऽख्यद् युक्तमेवैतत् पुत्रस्तूचेऽवधार्यताम् । स्वपुत्रे स्वप्रतापस्यावतारं पश्यतु प्रभुः ॥५४ कुमारवाक्यानुरोधादन्वमन्यत तन्नृपः । उभयोरनुरोधात् तु बह्वमन्यत मन्त्र्यपि ॥५५ ततोऽनुरक्ताङ्गरक्षसामन्तामात्यवर्मितः । चतुरङ्गचमूभारैः शेषाशेषकणारुजम् ॥५६ प्रतिग्राम प्रतिपुरं सौस्थ्यमुत्पादयन्नयम् । सुरन्धरकुमारः साक् प्रतस्थे स्थेमपर्वतः ॥५७॥ युग्मम् तथा चम्वाऽतिभूयस्या प्रयाणैरविलम्बितैः । श्रुत्वा यान्तं तं कुमारं द्विषो दुर्गमशिश्रियन् ॥५८ कुमारस्तदुर्गसंनिधाने स्थाने वरीयसि । द्विपद्वीरदुर्निवारं स्कन्धावारं न्यवीविशत् ॥५९ तैः प्रत्यनीकैः स्वस्वामी हृतो जयपुरेश्वरः । श्रीरत्नवल्लभो भूपः समायासीदलक्षितः ॥६० कुमारोऽल्पपरीवारः क्रीडया मृगयां गतः । तेन दृष्टः परिज्ञातो जगृहे हेलयैव हि ॥६१ पुण्योदयात् तेन पुत्रदशं दृष्टः सुरन्धरः ।। सन्धाय प्रत्यनीकैश्च स्वामिदर्शमदृश्यत ॥६२ स च राजा कुमाराय मेने तां सुरसुन्दरीम् ।
ततो जामातरममुं पुत्राधिकममस्त च ॥६३ ५१.२. र्लोभात्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org