________________
लीलावतीसारे भवद्भिर्यत् कुमारोऽसौ निमन्तुश्चारके धृतः ।। तदसौ मान्यतां स्वामी क्रियतां येन वः शिवम् ॥६५ ततो राजा च देवी च प्रमोदाद्वैतमूहतुः । सामन्ताद्याश्च बिभियुर्मेनिरे च सुरोदितम् ॥६६ अथ श्रीविमलसेनो राज्ञा राज्येऽभ्यषिच्यत । सर्वेश्च मानयाञ्चक्रे चक्रे वर्धापनं महत् ॥६७ क्षणे चात्रोद्यानपालः स्वभालघटिताञ्जलिः । हर्षप्रकर्षादुत्तालः श्रीभूपालं व्यजिज्ञपत् ॥६८ देवाद्य नन्दनोद्याने नन्दनोद्यानतर्जने । चतुर्ज्ञानी श्रीसमरसेनसू रिरुपागमत् ॥६९ सर्वैरूचेऽभवत् कौतूहले प्रतिकुतूहलम् । कुमारराज्याभिषेके यज्जज्ञे सुगुरूदयः ॥७० श्रीवत्सराजो विमलसेनादितनयैर्वृतः । सामन्तमन्त्रिपौरैश्च सर्वैः सह परिच्छदैः ॥७१ चतुरङ्गवरूथिन्या किञ्चिन्यचितशेषया । नन्तुं ययौ गुरुतीर्थ नन्दनोद्यानमण्डनम् ॥७२ प्रणम्य विधिनाऽऽसीनं राजानं सपरिच्छदम् ।
श्रीगुरु जयामास व्याख्यारसवतीमिति ॥७३ आजन्मोपात्तसर्वकषविषमकषायाटवीवह्निभीमे
दुर्दान्ताश्रान्तमत्तेन्द्रियकरटिघटाभग्नसाधिष्ठषण्डे । रागप्रद्वेषमोहप्रकटचरटकलण्टयमानाखिलस्वे
संसारारण्यदेशे न खलु निवसतां शर्मणोऽभ्यस्तिरस्ति ॥७४ अभ्येतुं तदिमं सर्वदर्शिसर्वज्ञदर्शितम् । धर्मवम॑ श्रयध्वं भो लभध्वं पदमव्ययम् ॥७५ श्रीदेशनारसवतीमेतामास्वाद्य जज्ञिरे । प्रशान्तसृष्णा बहुशोऽथ वृष्टि चातका इव ॥७६
७२.१. वरुथिन्या.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org