SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ ५२-६४] त्रयोदश उत्साहः तत् कुमार मुञ्च मुञ्च विषयाशाविडम्बनाम् । जिनधर्मे समुद्यच्छ सामग्री दुर्लभा पुनः ॥५२ ततः श्रीविमलसेनस्तमूचे भद्र कोऽसि भोः ।। सुरोऽवोचत् प्रस्मृतोऽस्मि भवतश्चिरसंस्तुतः ॥५३ कौशाम्ब्यां श्रीसुधर्मान्ते प्राबजाम वयं दश । । सौधर्मे घुसदोऽभूमोऽकार्म बोधाय संश्रवम् ॥५४ स्वर्गात् त्वं रामदेवर्षिजीवोऽत्राभूनरेन्द्रसूः । तस्य ते बोधयेऽस्म्यागां तद् बुध्यस्व महामते ॥५५ इति श्रुत्वेहादि कुर्वन् जातिस्मरणमुज्ज्वलम् । लेभे श्रीविमलसेनस्तृतीयमिव लोचनम् ॥५६ ततश्च प्राप्तसंवादः कुमारस्तं तुरं जगौ ।। अहो ते सत्यसंधत्वमहो सौजन्यमद्भुतम् ॥५७ निस्तारितो भवाम्भोधेरगाधादप्यहं त्वया । तदादिशाधुना कार्य यद् विधातुं ममोचितम् ॥५८ देवोऽवदत् प्रव्रजाशु श्रीजयशासनात्मनः ।। पार्श्व समरसेनस्य बोधितस्य मयैव हि ॥५९ स च प्रभुश्चतुर्ज्ञानी साधुसङ्घपरिष्कृतः ।। तव प्रनाजनकृते स्वयमेव समेष्यति ॥६० कारागारोदरस्थोऽहं दीक्षिप्येऽस्मि कथं सखे । ऊचे देवो मा विषीद यत् ते भवति पश्य तत् ॥६१ ततः पुरोपरि व्योम्नि विचक्रेऽसौ महाशिलाम् । अति प्रचण्डमनिलं सुघनं घनवादलम् ॥६२ व्योमस्थितोऽवदद्देवो भो भोः सामन्तमन्त्रिणः । दुराचारास्तथा राजन् कञ्चिच्छरणमिच्छत ॥६३ देवो वा दानवो वा यः पाति युष्मानितो भयात् । मा ब्रूत यन्न भणितमेष वश्चूर्णयाम्यहम् ॥६४ * 476 and 48a are erroneously repeated after 56b in the MS. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy