SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ लीलावतीसारे [३८-५१ ततश्चैवमिह विहिते प्रतियन्त्यमी । नान्यथेति विनिश्चित्य कुमारं तद् विबोध्य च ॥३८ कोपाटोपाद्दारुगृहे कुमारं न्यस्य सर्वतः । आप्तान् प्राहरिकान् कृत्वा सामन्तादीन् नृपोऽभ्यधात् ॥३९॥ युग्मम् दुष्टः पुत्रोऽपि निग्राह्यः शिष्टोऽनुग्राह्य इत्यसौ । रानीतिः कुलदेवीव समाराध्या सदैव नः ॥४० इयं काष्ठाऽत्र नः प्रत्येतव्यं युष्माभिरञ्जसा । राजेत्याधाद् राज्यसौस्थ्यमहो मतिमतां मतिः ॥४१ तं कुमारमथ ज्ञानाज्ज्ञात्वा ताग विपद्तम् ।। दध्यौ समरसेनोऽमुष्य बोधक्षणोऽधुना ॥४२ सोऽथास्मरत् शूरदेवमायातं तं जगाद च । कुमारोऽयं मदादेशयोग्यः शीघ्र विधीयताम् ॥४३ तथेत्यङ्गीकृत्य देवस्तत्रागात् प्रत्युषःक्षणे । उद्दिश्य च कुमारं तं पपाठेति स्फुटाक्षरम् ॥४४ संसारमेतं धिग् धिग् भो यत्र मन्तु विनैव हि । प्रियोऽपि विप्रियं कुर्यात् पिताऽपि प्रतिकूलति ॥४५ जायेत राजाऽपि रङ्कः पद्गः स्याद् गजगाम्यपि । आज्ञादाय्यपि चादेश्यो गुप्तो भोग्यपि संवसेत् ॥४६ तद् भो बुध्यस्व बुध्यस्व न कोऽपि स्वोऽत्र तत्त्वतः । विमलसेन कुमार मा रज्य विषयाशुचौ ॥४७ पठित्वेति सुरः सोऽगात् कुमारस्त्वित्यचिन्तयत् । वैराग्यकृन्मां प्रतीदं पेठे केन सुभाषितम् ॥४८ द्वितीयेऽह्नि पुनर्देवो भशं वैराग्यकृज्जगौ । यथागतं गतश्चायं कुमारः पृष्टवान् जनान् ॥४९ भो भोः केनाद्य पठितं जगदुः पारिपाश्चिकाः । न विद्मः कोऽप्यदृश्योऽयं केवलं श्रूयते ध्वनिः ॥५० पुनस्तृतीयेऽह्नि सुरोऽपाठीवैराग्यकृबहु । किं बहूक्तेर्न संसारे सुखं वह्नौ सरोजवत् ॥५१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy