________________
२६-३७]
त्रयोदश उत्साहः जयसिंहोऽवददथ यशोधवल मा वद । न सोऽस्ति योऽपराधेऽपीक्षिष्यते मम सम्मुखम् ॥२६ किञ्च - रे चाटुक रे धिग धिक् ते यशोधवल पौरुषम् । यद्वा दाता कुमारस्ते देशं तेनासि चाटुकृत् ॥२७ यशोधवल आह स्म मर्यादैव हि जीवितम् । तन्मुक्तो मृत एवासि किं शौर्य मृतमारणे ॥२८ त्वं च मे पितृष्वस्रीयस्तत्तवाग्रे भणामि किम् । एवं हि ब्रुवतोऽन्यस्य जिवामपहराम्यहम् ॥२९ अथावदज्जयसिंहो यशोधवल चाटुभिः । जीवं रक्षन् शूलविषादिभ्यस्तत्रास्यसे कथम् ॥३० कुमारोऽवग जयसिंह तवाग्रे ननु के वयम् । त्वमेव वीरतिलकस्त्वं तिलकयसि क्षमाम् ॥३१ क्रोधाविष्टोऽन्य ऊचेऽथ कस्त्वं नाम स्तनधयः । ममाने तव तातोऽपि चञ्चावत् पौरुषोज्झितः ॥३२ ततः क्रोधातिरेकेण कुमारोऽज्वलदग्निवत् । जाताकूतैः कुमारस्याङ्गरः स हतोऽसिभिः ॥३३ महाकलकलोऽथाभूत् रोदःकुक्षिभरिस्तदा । कुमारेण जयसिंहोऽघातीत्याख्यज्जनोऽभितः ॥३४ अज्ञाततत्त्वाः सामन्ता मन्त्रिणोऽथ पदातयः । सर्वेऽप्येकमतीभूय मिमिलुटुम्रहा इव ॥३५ ततो राजा वत्सराजोऽचिन्तयन्मतिशेवधिः । एते सर्वेऽप्यविश्वस्ताः कुमारे मयि चाभवन् ॥३६ विग्रहे विड्वरं कुर्युः स्वतन्त्रस्य क्षयस्ततः । द्रुह्येयुर्वा कुमारायामी मिलेयुरथाऽरिभिः ॥३७
३६.२. सेवधिः. - Lila.-40
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org