________________
३१२
लीलायतीसारे
[१३-२५ कलापात्रीभिरुर्वीशपुत्रीभिर्युवराट् श्रिया । सममेव कुमारं तं भूपतिः पर्यणाययत् ॥१३ ततो विभिन्ने भवने ताभिः सममरस्त सः । सूर्योदयास्तसमयावबुधत् पद्मषण्डतः ॥१४ कुमारस्य निजास्थाने सुखासीनस्य चान्यदा । सामन्तौ यशोधवलजयसिंहावुपेयतुः ॥१५ नत्वा यथास्वमासीनौ प्रारेभे तैमिथः कथा । प्रसङ्गा विस्मयकरी धातुवादकथाऽभवत् ॥१६ उवाच जयसिंहोऽथ धूर्तेविरचितान्यहो । धातुवादादिशास्त्राणि . सत्यं नात्रैकमक्षरम् ॥१७ कुमारोऽथ न्यषेधत् तं मेत्याशातय प्राङ्नरान् । न सिध्यति तदुक्तं च सत्यसाहसवर्जिनः ॥१८ अन्योऽवादीन्मम सत्याद्यभावान्नैव सिध्यति । न साध्यति किं नाम सत्यसाहसवान् भवान् ॥१९ आख्यत् कुमारः किं रुष्टः को वक्ति मम सिध्यति । ऊचेऽन्यो यदि ते सिध्येत् कूर्चाधं मुण्डयेमम ॥२० ऊचे कुमारस्त्राताऽहं न कस्यापि विडम्बकः । अन्योऽवक किमहस्तत् स्याद् यत्र त्रास्येऽस्मि केनचित् ॥२१ सरोषं राजसूः प्राह चेच्छक्तः सेवकोऽसि किम् । ऊचेऽन्यश्चेन्न सेवामि कः सेवयति मां बलात् ॥२२ तन्मित्र व्यसनं किं ते सेवाकष्टं करोषि यत् । यशोधवलोऽथाबुद्ध जज्ञे वैरस्यमेतयोः ॥२३ ततः कुमारं स प्राह तव तात प्रसादतः ।। असमीक्ष्याभिधानेऽपि नाप्रसादपदं वयम् ॥२४ अपि च - भत्यस्यागो मृष्यते यो गुणान् वक्ति च य प्रभुः ।
तस्यारिवर्गमथने भत्याः प्राणान् ददत्यपि ॥२५ २५.४, भृत्या.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org