________________
त्रयोदश उत्साहः
इतश्च श्रीनेमिनाथविहारः पूतभूतलः । सुराष्ट्रेत्यस्ति विषयो विषयो न हि विद्विषाम् ॥१ भात्यत्र गिरिनगरं गिरिनारस्य डिम्भवत् । यत् प्रखेलत्यस्खलितैरखिलैर्धर्मखेलनैः ॥२ राट् तत्रासीद् वत्सराजो वत्सरा यस्य घस्रयवत् । निष्कण्टकितविश्वस्य लीलयैवातिचक्रमुः ॥३ जयश्रीदेव्यभात् तस्य जयश्रीरिव देहिनी । बहुभिः प्रार्थनीयाऽपि याऽऽश्रयन्न नरान्तरम् ॥४ तयोः परस्परप्रेमपारावारसमुद्भवम् । पिबतोः शर्मपीयूषमत्रैव स्वरवातरत् ॥५ ततो जयश्रियो देव्याः कुक्षौ शुक्तिपुटोपमे । मुक्तोपमो रामदेवदेवजीवः समागमत् ॥६ निशान्ते सा सहस्रांशुं तद्देवांशुसहस्रवत् ।। मुखे विशन्तमद्राक्षीज्जैनागारं तदेव च ॥७ प्रहृष्टा भू भुजे सा च स्वप्नमेनमचीकथत् । पतिरेको गुरुः स्त्रीणामिति ख्यापयितुं किल ॥८ राजाऽऽचष्ट प्रतिहताशेषतेजस्विमण्डलः । आखण्डलः क्ष्मातलस्य भविता देवि तेऽङ्गजः ॥९ विहाराहारव्याहारैः स्थानसंवेशनासनैः । हृद्यैश्च दोहदैर्दैवी गर्भ पुण्यमिवैधयत् ॥१० समयेऽसूत सा देवकुमारमिव दारकम् ।। सौभाग्यसुभगाकारं सौभाग्यमिव मूर्तिमत् ॥११ विमलसेन इत्याख्यां द्वादशेऽह्नि पराप सः । स्फायन् शशीव सर्वाभिः कलाभिः पर्यपूरि च ॥१२
७.४. जनागार.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org