SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ ३९५-४०८ ] Jain Education International द्वादश उत्साहः ततो ज्ञानक्रियाभ्यासं ते समारेभिरेऽधिकम् । चतुर्दशापि पूर्वाब्धीन् कुमारस्त्वपिबन्मुदा ॥३९५ अवधि मनः पर्यवं च स पुण्यात्मा पराप च । राजा राज्ञी चान्तकृतौ सिद्धिसौधमवापतुः ॥ ३९६ मुनिः समरसेनस्तु गुणरत्नमहाखनः । स्वपदे स्थापयाञ्चक्रे गुरुणा गुरुगौरवात् ॥३९७ श्रीसर्वसङ्घप्रत्यक्षं श्रीसमरसेनसूरये । श्रीमान् नन्दनसूरीन्द्रोऽनुशास्तिमददादिति ॥ ३९८ धन्यस्त्वं येन विज्ञातः संसारगिरिदारकः 1 वज्रवदुर्भिदश्चायं महाभाग जिनागमः ॥ ३९९ इदं चारोपितं यत् ते पदं सत्सम्पदां पदम् । अत्युत्तममिदं लोके महासत्त्वनिषेवितम् ॥४०० धन्येभ्यो दीयते तावद्धन्या एवास्य पारगाः । गत्वास्य पारं धन्यास्तु पारं गच्छन्ति संसृतेः ॥४०१ भीतं संसारकान्तारात् समर्थस्य विमोचने । साधुवृन्दमिदं सर्व भवतः शरणागतम् ॥ ४०२ संप्राप्य सगुणं धर्मं निर्मलं पारमेश्वरम् । त्राणं संसारभीतानां धन्याः कुर्वन्ति देहिनाम् ॥ ४०३ तदेते भावरोगार्तास्त्वं च भावभिषग्वरः । अतस्त्वयामी सज्जीवा मोचनीयाः प्रयत्नतः ॥ ४०४ गुरुश्च मोचयत्येता न प्रमत्तो हितोद्यतः । बद्धलक्षो दृढं मोक्षे निःस्पृहो भवचारके ॥४०५ कल्पोऽयमिति कृत्वा त्वमीदृशोऽपि प्रणोदितः । निजावस्थानरूपं हि चेष्टितव्यं सदा त्वया ॥ ४०६ युष्माभिरपि नैवैष सुस्थबोहित्थसन्निभः । संसारसागरोत्तारी विमोक्तव्यः कदाऽपि न ॥ ४०७ प्रतिकूलं न कर्तव्यमनुकूलर तैः सदा । भाव्यमस्य गृहत्यागो येन वः सफलो भवेत् ॥ ४०८ For Private & Personal Use Only ३०९ www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy