________________
३०८ लीलावतीसारे
[३८२-३९४ ततोऽरिकेसरीपुत्रो लघू राज्येऽभ्यषिच्यत ।
राजा राज्ञीकुमारश्च त्वरन्ते स्म व्रतश्रिये ॥३८२ तत्रैवावसरे शरच्छशधरज्योत्स्नासमुच्छालित
___ क्षीराम्भोनिधिभृङ्गशृङ्गविलसड्डिण्डीरसध्गययशः- । स्तोमोदारविसारिजादरपटप्रावारिताशाजन
प्रोदैनन्दनकाननेऽद्भुतचतुर्ज्ञानी गुरुनन्दनः ॥३८३ उद्यानपालकेनाथ गुरुकल्पद्रुमोदयात् । वर्धापितः स्वर्णलक्षं नृपोऽदात् पारितोषिकम् ॥३८४ जयकुञ्जरमारुह्य राजा श्रीजयशेखरः । सान्तपुरः ससामन्तारिकेसरिनृपान्वितः ॥३८५ श्रीमान् समरसेनश्चाधिरूढो मङ्गलद्विपम् । पञ्चशत्या राट्कुमारैर्वयस्यैः परिवारितः ॥३८६ गत्वा श्रीनन्दनोद्याने त्रिःप्रदक्षिणनाद्भुतम् । नत्वा गुरुं परीवारं चासीनौ तौ यथोचिति ॥३८७ ततश्च भगवान् भाद्राम्भोधरध्वनिडम्बरः । विस्तारयामास धर्मदेशनां क्लेशनाशिनीम् ॥३८८ तथा हि - असारः सैष संसारः कारागारसहोदरः । मूलस्तम्भौ तस्य परिग्रहारम्भौ सुनिश्चितम् ॥३८९ तयोः पुनः परीहारस्तत्प्रध्वंसनिबन्धनम् । ततः परिग्रहारम्भौ भङ्क्त्वा स्थ शिवसद्मनि ॥३९० राज्ञा विज्ञापयाञ्चक्रे ततः श्रीनन्दनो गुरुः । पुत्रः समरसेनोऽयं प्रभो दीक्षां जिघक्षति ॥३९१ वयं चानुयियासानः पुण्यवन्तममुं सुतम् । प्रसद्य सद्यो भगवन् पूर्यतां नः समीहितम् ॥३९२ गुरुरूचे वयमिहैतदर्थ हि समागताः । निष्प्रत्यूहं सिद्धमेव भवतां वाञ्छितं ततः ॥३९३ ततो राजा च राज्ञी च कुमाराणां च पञ्चभिः । शतैर्वृतः कुमारश्च दीक्षामासुस्तदन्तिके ॥३९४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org