SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ ३६९-३८१ ] Jain Education International ततः कुमारः पितरं सादरं प्रत्यपीपदत् । तात त्वयाऽस्म्यनुज्ञातः प्रपद्ये सिद्धिपद्धतिम् ॥३६९ तत्पुत्रस्य वचः श्रुत्वा तप्ततोमरसोदरम् । जयशेखरराजेन्द्रः सगद्गदमदोऽगदत् ॥३७० पुत्रानाथ इवैकाकी दीक्षितस्त्वं गृहाद्गृहम् । यद्भ्रमिष्यसि तेनेदं हृन्मे [नु] शतधा स्फुटेत् ॥ ३७१ तातानाथस्यैककस्य स्यातां किं मूर्धिन शृङ्गके जिनधर्मं विनाऽनाथा एककाः सर्व एव हि ॥ ३७२ तथाहि - द्वादश उत्साहः ३७१.३. भ्रमिष्यसि. प्राग्दुष्कृतोदये तात पितॄणां पश्यतामपि । पुत्रेण वेद्यते दुःखं नानारोगसमुद्भवम् ॥३७३ गर्भवासे प्रियायोगेऽप्रिययोगे जरागमे । व्ययेऽन्तराले दुर्गत्यामनाथैको व्यथां सहेत् ॥ ३७४ तन्नाथ वासहायो वा कोऽपि धर्मं विना न हि । सनाथः ससहायश्च तद्धर्मेण भवाम्यहम् ॥ ३७५ वैराग्यसिद्धरसैर्भिन्नमना नृपः । इत्यस्य तन्मयत्वमिव प्राप्तस्तदुद्गारमिवामुचत् ॥३७६ धन्यस्त्वमेव येनेयं तृष्णावल्लयुदमूल्यत । द्रव्यक्षेत्रादौ च येन प्रतिबन्धो व्यबाध्यत ॥ ३७७ मातापितृप्रियाभ्रातृस्नेहोऽनर्थनिबन्धनम् 1 विमोहिताः ॥३७९ त्वया यथावदज्ञायि सुलब्धं जन्म तत् तव ॥ ३७८ जानीम एव हि वयं विरसं भवनाटकम् । महामोहनटेनैव परमेवं जननी ते कृतार्थेयं पिता ते जगदुत्तमवैराग्यो यत् पुत्रस्त्वं पवित्रधीः ॥३८० आवयोरपि संसारवाधिपोतस्त्वमेव हि । तत् त्वरस्वैकतूर्येण प्रनजामो वयं समे ॥ ३८१ जगदुत्तमः । For Private & Personal Use Only ३०७ www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy