SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ ३०६ लीलावतीसारे [३५९-३६८ तदलं तात भोगैर्भे किन्तु चारित्रसेनया । मुक्तिराज्यमर्जयामि जयामि भववैरिणम् ॥३५९ ततो माताऽवदद्वत्स त्वद्दीक्षावचनश्रुतेः । हृदयं मे स्फुटतीव मा वादीस्तदिदं पुनः ॥३६० कुमारोऽथाभ्यधान्मातः कोऽयं शोकोदयस्तव । जयश्रियो ह्यागमे स्यात् प्रत्युत प्रमदोदयः ॥३६१ माता - स्वैरं विलस साम्राज्यसम्पदा यौवनावधि । भुक्तभोगस्ततो वीर रमेथाः संयमश्रिया ॥३६२ पुत्रः - यस्यास्ति मृत्युना सख्यं यः शक्तोऽतः पलायितुम् । यश्चाजरामरोऽत्रास्ति मातर्भोगेच्छुरस्तु सः ॥३६३ माता - अतिप्रियोऽसि मे वत्स जीवामि त्वां विना न हि । यावज्जीवामि तदहं तावन्मा सौम्य निष्क्रमीः ॥३६४ पुत्रः - यथा प्रदीप्तात् सदनान्निर्गच्छन् वल्लभो जनः । न वार्यते वार्यते न तथैव भवचारकात् ॥३६५ मातानिरास्वादा वालुकावदुश्चर्वा या जवा इव । दीक्षा ज्ञेया जिनेन्द्राणामत्र भग्ना महारथाः ॥३६६ पुत्रः - - निःसत्त्वानां सर्वमेतत् किन्तु सर्वे न तादृशाः । विना सत्त्वं गृहमपि दुनिर्वाहमसंशयम् ॥३६७ धन्योऽसि सर्वथा वत्स संयमं यः प्रपत्स्यसे । किन्त्वनुज्ञाप्य पितरं दुष्करं व्रतमाशृणु ॥३६८ ३६५.४. चारकान् . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy