________________
३४६-३५८ ]
द्वादश उत्साहः प्रभोः पुरस्तादीहादि कुर्वाणोऽथ नृपाङ्गजः । मुमूर्च्छ स च देवेन सिषिचे गन्धवारिभिः ॥३४६ तालवृन्तानिलहृतातुच्छमूर्छः पराप च । जातिस्मृति जगन्नाथकेवलस्येव वर्णिकाम् ॥३४७ प्रबुद्धः श्रीकुमारोऽथ तमुवाच सुरोत्तमम् । तवानुशास्तिमिच्छामि साधु साध्वस्मि बोधितः ॥३४८ अहो ते सत्यसंधत्वमहो तेऽन्योपकारिता । अहो स्वार्थानपेक्षित्वं तवाहो साधुसौहृदम् ॥३४९ यन्न श्रुतं यन्न दृष्टं यन्नराणां न गोचरः । भूर्भुवःस्वस्त्रयं तन्मेऽध्यक्षं त्वन्निश्रयाऽभवत् ॥३५० ततः सुरकुमारौ तौ नमस्कृत्य जगत्प्रभुम् ।। वचोऽपातां सुधापायमहो पुण्योदयस्तयोः ॥३५१ जिनव्याख्यावसाने च गतौ तौ तं नदीह्रदम् । शान्तयित्वा हस्तिनं तमारोप्य नृपनन्दनम् ॥३५२ निर्विघ्नमस्तु ते वीर प्रतिबध्यस्व मा क्वचित् । कार्ये स्मार्योऽस्मीति चोक्त्वा शूरदेवो दिवं ययौ ॥३५३॥ युग्मम् द्विपारूढः कुमारस्तु प्रस्थितः स्वपुरं प्रति । पदे पदे स्वशिबिरं चिन्तातुरमवैक्षत ॥३५४ कुमारं च तथा यान्तं प्रेक्ष्य सर्वेऽपि सैनिकाः । मराला मानसमिव प्रहृष्टाः पर्यवारयन् ॥३५५ श्रुत्वा स्वपुत्राभ्युदयं समुद्रोऽभ्यागमन्नृपः ।। तमस्तोमः क्षयमगान्मुदद्वैतं व्यज़म्भत ॥३५६ भुक्त्युत्तरं श्रीसमरसेनः सत्वरमभ्यधात् । जयशेखरभुवनमञ्जरों पितराविति ॥३५७ अम्ब तात मया ज्ञाता विषया विषसन्निभाः ।।
आपातमात्रमधुराः परिणामेऽतिदारुणाः ॥३५८ ३४७.१. 'तानल'. Lila.-39
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org