SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ २९६-३०८ ] Jain Education International द्वादश उत्साहः राजा क्रोशमात्रे हरिचन्द्रो नृपमभ्येत्य नेमिवान् । तमङ्कमारोप्याचलन्निजपुरं गजघटा गलगजिश्रुतेरिव । अत्रान्तरे दैवाद् घनघटाग जिरुज्जजृम्भेऽल्पवृष्टिकृत् ॥ २९७ ततोऽब्दधारावाहाभिः श्लिष्टोत्कृष्टा बभूव भूः । गन्धसारोदारगन्धान् गन्धवर्तीव चामुचत् ॥२९८ ततः समरसेनस्य करी विन्ध्याटवीं स्मरन् । स्मरातुर इवाधावदन्वधावीद् वरूथिनी ॥२९९ धावमानो वायुवेगाद् गजो गम्भीरवेद्यसौ । सैन्यप्रमुक्तान् नाराचान् न मेने मशकानपि ॥ ३०० निषादिसादिनां वेगाद् गजं तमनुधावताम् । तदीयभाग्यमिव हाऽस्तमियाय दिवाकरः ॥ ३०१ ततोऽन्धकारे प्रसृते तदभाग्य इवाऽभितः । यो यत्राभूत् स तत्रास्थात् तमसा स्तम्भितः किल ॥३०२ कुमारेभस्तु तरसा गच्छन् निखिलया निशा । विन्ध्याटव्यां पूर्वभुक्तां नदीं प्राप प्रियामिव ॥ ३०३ अथ क्रीडति तत्रेभे तत उत्तीर्य वेगतः । तस्यास्तीरे पयः पातुमुपविष्टो नरेन्द्रसूः ॥ ३०४ क्षणेऽत्र प्रच्छन्नचारी दध्यौ सूरसुरः स च । प्रस्तावो वर्ततेऽमुष्य प्रतिबोधाय साम्प्रतम् ॥ ३०५ प्रति ॥ २९६ यतः यावन्न दुःखं संप्राप्ता वियुक्ता नेष्टबान्धवैः । तावन्न प्राणिनः प्रायो धर्मं गृह्णन्ति भावतः ॥ ३०६ ततः पुंरूपेण तेनाग्राहि बाहौ स राजसूः । स च तं प्राहरत् क्षुर्या प्रहारोऽमुष्य नालगत् ॥ ३०७ पुंसाऽन्येन ततोऽमुष्य छुरीमुद्दाल्य हस्ततः । नद्यां निमज्जयाञ्चक्रे भूपभूर्जलकुम्भवत् ॥३०८ For Private & Personal Use Only ३०१ www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy