SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ लीलावतीसारे [२८२-२९५ स वेतालः प्रगे योगिशिरश्छित्वाऽविशद्दरीम् । कुमारस्तां दरीं रोषादारब्ध खनितुं बलात् ॥२८२ वेतालेनाथ हुञ्चक्रे पतितो राजसूर्भुवि । दाहज्वरेण जगृहे पतितं दुष्कृतं तयोः ॥२८३ ते च दिगरक्षिणो मर्त्या राट्सूनूक्तानुसारतः । क्रमात् तत्रापुरद्राक्षुस्तं कुमारं तथास्थितम् ॥२८४ ततो दण्डिकया तैः स निन्ये चन्द्रपुरं पुरम् । राज्ञश्च दर्शयाञ्चक्रे तवृत्तान्तोक्तिपूर्वकम् ॥२८५ ततो राजा विषण्णोऽपि सद्यो वैद्यानजूहवत् ।। तैश्चारेभे कुमारस्य क्रिया दाहज्वरोचिता ॥२८६ राज्ञा च यक्षिणी शान्तिकर्मणा मानिता भशम् । प्रासीदत् स्वस्थ्यभूत् पुत्रो जज्ञे वर्धापनं महत् ॥२८७ पित्राऽन्यदा सपरुषं शिक्षायै भाषितः सुतः ।। धिग् धिग धियं ते किं न्यूनं यदेवं क्लिश्यसे मुधा ॥२८८ एतावताऽप्यपमानममानं धृतवान् हृदि । कुमारोऽत्पपरीवारश्छन्नं निशि गृहान्निरैत् ॥२८९ निर्गमात् तुर्यमुद्याहस्तद्राज्ञा समदेशि वः (१) । स चेद् वः सन्निधावेति तदा धार्योऽत्र सर्वथा ॥२९० इति यावदसौ वक्ति तावदन्यः पुमान् जगौ । आगादेव द्वियोजन्यां कुमारो वर्ध्यसे ततः ॥२९१ ततः सद्यः प्रमुदितो राजा वेत्रिणमादिशत् । पूःशोभाकार्यतां वेगात् श्रीकुमारोऽभिगस्यते ॥२९२ ततश्च सज्जिताः सर्वे हस्त्यश्चरथपत्तयः । राजा जयेभमारोहत् सान्तरङ्गपरिच्छदः ॥२९३ कुमारः समरसेनः पट्टहस्तिनमाश्रयत् । सामन्तास्तुरगान् मन्त्रिमुख्याश्चारुरुहू रथान् ॥२९४ ततः सर्वोघेण हरिचन्द्रस्याभिगमं प्रति । जयशेखरराजेन्द्रश्चचाल चलयन्निलाम् ॥२९५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy