SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ २९९ २६८-२८१] द्वादश उत्साहः कच्चित् चन्द्रशेखरस्य मत्स्वसुश्च जयश्रियः । तत्पुत्रहरिचन्द्रस्य कुशलं सर्वतोऽपि हि ॥२६८ देवदेवातिवात्सल्याच्छेयोऽस्त्येवास्य किं पुनः । यक्षिणीधातुवादादौ हरिचन्द्रस्य कौतुकम् ॥२६९ अन्यदा योगिनैकेन यक्षिणीमन्त्र ईरितः ।। कुमारोऽपृच्छत् तच्छक्ति योग्युवाच शणु प्रभो ॥२७० यद्येषा यक्षिणी सिध्येत् तदा वश्यं जगद् भवेत् । कोशोऽक्षयो व्योम्नि गतिस्तदाराधय यक्षिणीम् ॥२७१ कुमारेणैष पप्रच्छे को न्वस्याः साधनाविधिः । सोऽवक् कृष्णचतुर्दश्यां श्मशानेऽयुतजापतः ॥२७२ नृमांसपलसहस्रहोमात् सिध्यति यक्षिणी । उत्तरसाधकोऽस्म्येकोऽन्ये चत्वारश्चतुर्दिशि ॥२७३ बिभीषिकासूत्थितासु जापैकाम्यं विशेषतः ।। मदुक्तं चादरात् कार्य कुमारेण प्रतिश्रुतम् ॥२७४ ततः कृष्णचतुर्दश्यामनापृच्छयैव भू भुजम् । कुमारः सर्वसामग्रया ३मशाने योगियुग ययौ ॥२७५ दिगरक्षके पुंश्चतुष्के योगिन्युत्तरसाधके । मन्त्रजापः समारेभे कुमारेणैकचेतसा ॥२७६ अर्धरात्रं कृते होमे विजित्योमा विभीषिकाः । पञ्चमांसपलशती . जुहुवे नृपसू नुना ॥२७७ अथाग्निकुण्डादुत्तस्थौ वेतालो विब्रुवन्निति । विद्यासाधकमव्ययुत्तरसाधकममि वा ॥२७८ भीतो योगी ततो हन्तुमारेभे तेन स द्रुतम् । पाप्मिना योगिनाऽथोचे पाहि पाहि कुमार माम् ॥२७९ मदुक्तं कार्यमित्येतद् वचः संस्मृत्य भूपसूः । मुक्त्वा होमं खड्गपाणिवेतालं प्रत्यधावत ॥२८० वेतालो योगिनं लात्वा दिशमेकामधावत । कुमारश्च तमन्वेव महारण्ये गतावुभौ ॥२८१ २७५.२. अमावृच्छयैव. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy