________________
२९८
लीलावतीसारे
[२५४-२६७ इति साभिनयं तेन नटेनाखेट आन्तरे । गीते प्रमुदिता संसत् सर्वस्वं दातुमैहत ॥२५४ अथ चिन्तयाञ्चकार कुमारः स्थिरधारणः ।। अये प्राभातिकपाठिप्रायः कोऽप्येष नो पुमान् ॥२५५ व्याजहार कुमारोऽथ भो भोः सुकृतिशेखर । नटरूपेणामुना किं स्वं रूपं प्रकटीकुरु ॥२५६ प्रादुरासीत् ततो दिव्यालङ्कारैर्भासुरः सुरः । जगाद च श्रीकुमारं सावधानं निशामय ॥२५७ रन्त्वा रत्नविमानेषु किं रज्यस्यश्मवेश्मषु ।। त्यक्त्वा च तान् रत्नराशीन् का सक्तिर्मलिने धने ॥२५८ भुक्त्वा च तरुणीदिव्या रागोऽशुच्यबलासु कः । मुक्त्वा चांशुकभूषास्ताः कुत्सितास्वासु का रतिः ॥२५९ दिव्याङ्गरागैरालिप्याङ्गरागेष्वेषु का स्पृहा । स्थित्वा तादृक् परीवारे का खलेऽत्र जने स्थितिः ॥२६० कुमारो व्याहरत् सुष्टु त्वयाऽशिक्षीन्द्रजालकम् ।। ततोऽस्मि तुष्टो याचस्व स्वेच्छया स्वमनीषितम् ॥२६१ सुरोऽथ चिन्तयामास हा किमेवं लपत्यसौ । दुर्लभबोधिकोऽयं किं यदित्युक्तो न बुध्यते ॥२६२ प्रयुक्तावधिना तेन ज्ञातं नेत्येष भोत्स्यते । तत् प्राप्यावसरं किञ्चिद् बोध्योऽयमिति चेतसा ॥२६३ सुरो दृश्येतरो जज्ञे पेटकं चास्य धामवत् । स्मित्वा कुमारोऽवक कोऽपि मोहयिष्यति मामपि ॥२६४॥ युग्मम् द्वितीयेऽह्नि नमस्कृत्य पितरं जयशेखरम् । तदास्थानसरस्यस्थात् कुमारो राजहंसवत् ॥२६५ अन्येऽपि मन्त्रिसामन्तप्रमुखा राजपौरुषाः ।। चक्रवाकादय इव निषेदुस्तत्र सर्वतः ॥२६६ अत्रान्तरे चन्द्रपुराच्चन्द्रशेखरभूपतेः ।। दूतस्तत्रागतो नत्वोपविष्टोऽप्रच्छि भू भुजा ॥२६७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org